________________
५०८
तत्त्वसंग्रहे यथोक्तं भाष्ये-"नित्ये तु खलु वै शब्दे बहुकृत्व उच्चारितः श्रुतपूर्वस्त्वन्यान्यासु • गोष्वन्वयव्यतिरेकाभ्यामाकृतिवचनत्वमवगमयिष्यति', तस्मादपि नित्यः" (मी० द०, शा० भा० १.१.१९) इति।
व्यक्ती: स्वस्वनिबन्धना इति। यथास्वं भेदभिन्ना इत्यर्थः। भिन्नत्वं हि तासां भेदप्रतिपत्तिनिबन्धनम्। [G.595] तेन स्वं भिन्नत्वं भेदप्रतिपत्तिनिबन्धनं यासां ता: स्वनिबन्धनाः । वर्जयन्निति सम्बन्धः ॥ २१३५-२१३७॥ ... स्यादेतत्-यदि नाम चिरेण प्रतिपद्यते, तथापि कथं सर्वकालभावित्वं शब्दस्य? इत्याह
तावत्कालं स्थिरं चैनं कः पश्चान्नाशयिष्यति! तावत्कालम् निष्कृष्टस्वार्थप्रतिपादनकालम्।
ननु यथा घटादीनां तावत्कालं स्थिराणामपि मुद्गरादिभ्यः पश्चाद् विनाशः, तथा शब्दस्यापि भविष्यति? इत्याह
. सम्भाव्यतेऽस्य नाशित्वं न भूयोऽन्येन हेतुना॥ २१३८॥ .
यथा शस्त्रादिभिश्छेदाजरया वा घटादयः। ।
नझ्यन्तीत्यवंगम्यन्ते नैवं शब्देऽस्ति कारणम्॥२१३९॥ भूय इति । पुनः यथा शस्त्रादिभिश्छेदाद् विनाशं प्रतिपद्यन्ते घटादयो जरया वा, नैवं शब्देऽस्ति कारणम् । कथम्? अमूर्त्तत्वात्, घटादीनां च मूर्त्तत्वादिति भावः ॥ २१३८-२१३९ ।। यदुक्तम्
"घटादेरेकतापत्तौ जात्येष्टं सिद्धसाधनम्। व्यक्तीनामेकतापत्तिं कुर्याच्चेदनया दिशा। तदा दृष्टविरुद्धत्वं वाच्यं सर्वप्रमाणकम्॥"
(श्रो० वा०, श० नि० ४२२, ४२३) इति । तदिहापि समानम्-'गादीनामेकतापत्तौ जात्येष्टं सिद्धसाधनम्' इति सर्वं वाच्यम्। तथा हि-देशकालप्रयोक्तभेदाद् गवादिव्यक्तिवद् गादिवर्णव्यक्तयो बयः, तदाधारं च गोत्वादि, तद्वद्ने गत्वाद्यपि सामान्यमिष्टमिति सर्वं समानम् ? इत्याशङ्कयाह
देशकालप्रयोक्तृणां भेदेऽपि च न भेदवान्।
गादिवर्णो यतस्तत्र प्रत्यभिज्ञा परिस्फुटा॥२१४०॥ प्रत्यभिज्ञाख्यात् प्रत्यक्षाद् व्यक्तीनामेकत्वं सिद्धम्। न 'चानुमान' प्रत्यक्षविरोधे प्रमाणीभवति; प्रत्यक्षस्य सर्वप्रमाणज्येष्ठत्वादित्यभिप्रायः ॥ २१४० ॥
ननु द्रुतमध्यविलम्बितादिप्रतीतिभेदाद् भेदः सिद्ध एव व्यक्तीनाम्, तत् कथमुच्यते प्रत्यभिज्ञा परिस्फुटा? इत्याह
___ न हि द्रुतादिभेदेऽपि निष्पन्ना सम्प्रतीयते। . १-१. गोशब्दे-तत्रस्थः पाठः। २. मवगमयति-पा०, गा०।
३. तद्-पा०/ ४. प्रत्यभिज्ञाख्यात्तु-पा, गा० ।
५. नानुमानं-पा०, गा०।