________________
श्रुतिपरीक्षा
५०९ गव्यक्त्यन्तरविच्छिन्ना गव्यक्तिरपरा स्फुटा॥२१४१॥ निष्पेन्नेति अकल्पिता। विच्छिन्नेत भिन्ना । गव्यक्ति:=गकारव्यक्तिः । प्रत्यभिज्ञयैकीकृतत्वान्न गव्यक्तिपराऽस्तीति भावः ॥ २१४१॥ [G.596] ननु च गत्वादिजातिरेवात्र प्रत्यभिज्ञायते न व्यक्तिः, तत्कथं व्यक्तेः प्रत्यभिज्ञा? इत्याह
गकारोऽत्यन्तनिष्कृष्टगत्वाधारो न विद्यते।
गान्यबुद्धयनिरूप्यत्वात् परकल्पितगत्ववत्॥२१४२॥ गान्यबुद्ध्यनिरूप्यत्वादिति । गकारादन्यो गान्यः, तस्मिन् बुद्धिः, तयाऽनिरूप्यत्वात्= अग्राह्यत्वात्। परकल्पितगत्ववदिति । 'नि:सामान्यानि सामान्यानि' इति परेषां सिद्धान्तात् ॥ २१४२॥
वर्णत्वाच्चापि साध्योऽयं खकारादिवदेव च।
व्यतिरेकस्य चादृष्टे त्रं दृष्टं निवर्त्तकम्॥ २१४३॥ . वर्णत्वाच्चापि साध्योऽयमिति। गत्वनिषेध इति शेषः । तत्र प्रयोगः-यो वर्ण:२ सोऽत्यन्तनिष्कृष्टगत्वाधारो न भवति, यथा खकारादिवर्णः । वर्णश्चायं गकार इति विरुद्धव्यासोपलब्धिः; गत्वाधारत्वविरुद्धेन किल वर्णत्वस्य व्याप्तत्वात् । न चात्र प्रतिज्ञाया दृष्टविरोध इत्याह-व्यतिरेकस्येत्यादि । व्यतिरेक:=भेदः । दृष्टम्-प्रत्यक्षम् ॥ २१४३॥
स्यादेतत्-बौद्धं प्रति सिद्धसाध्यता, तथा हि--एकत्वबुद्धिरन्यापोहनिबन्धनैवेष्टा, न व्यतिरिक्तगत्वनिबन्धना, ततश्च प्रतिषिद्धेऽपि व्यतिरिक्तं गत्वे नैकत्वबुद्धिवशादेकत्वं वर्णस्य सिध्यति, अंन्यापोहनिबन्धनत्वात्तस्य? इत्याशङ्ख्याह
द्वयसिद्धस्तु वर्णात्मा नित्यत्वादि यथैव च। - कल्पितस्येष्यते तद्वत् सिद्धस्यैवाभ्युपेयताम्॥२१४४॥ किमित्युभयसिद्धं वर्णात्मानं परित्यज्य कल्पितस्यैवान्यापोहस्य नित्यत्वानेकत्वव्यापित्वादयो वर्ण्यन्ते? 'जातिधर्मव्यवस्थितेः' इति वचनात् । युक्तं यदेवोभयसिद्ध तस्यैव कल्पयितुम्, अन्यथा ह्यदृष्टकल्पनाप्रसङ्गः स्यात्॥ २१४४ ।।
तेनैकत्वेन. वर्णस्य बुद्धिरेकोपजायते।।
विशेषबुद्धिसद्भावो भवेद् व्यञ्जकभेदतः॥२१४५॥ तस्मादेकत्वादेव वर्णस्यैका प्रत्यभिज्ञाबुद्धिरुपजायते । यद्येवम्, द्रुतमध्यविलम्बितादिविशेषबुद्धिः कथं भवेत् ? इत्याह-विशेषबुद्धीत्यादि। व्यञ्जका:-वायवीयाः संयोगविभागाः ॥ २१४४-२१४५ ॥
ननु वायोरश्रोत्रविषयत्वात् तदीया अपि संयोगविभागा अश्रौत्रा एव, तत् कथमगृहीते [G.597] व्यञ्जके व्यङ्गयस्य ग्रहणं भवति. न ह्यालोकाग्रहणे तव्यङ्गयस्य घटादेर्ग्रहणं युक्तमिति मन्यमानश्चोदयति१. गान्यबुद्धिनिरूप्यत्वात्- पा०, गा० । २. - गवर्ण:- पा०, गा० ।