________________
५१०
तत्त्वसंग्रहे ननु यस्य द्वयं श्रोत्रं तस्य बुद्धिद्वयं भवेत्।।
भवतोऽतीन्द्रियत्वात् तु कथं नादैर्विशेषधीः ॥ २१४६॥ ... यस्येति। यस्य= वैयाकरणादे?षात्मको ध्वनिर्व्यञ्जकः, न तु वायवीयसंयोगविभागात्मकः, तस्य द्वयम्-व्यङ्ग्यं व्यञ्जकं न श्रोत्रग्राह्यमिति' बुद्धिद्वयम्-एकबुद्धिः, विशेषबुद्धिश्च भवति। भवतस्तु मीमांसकस्य कथं नादैर्वायवीयसंयोगविभागात्मकैविशेषधीभवेत्, कुतः? अतीन्द्रियत्वात्। नादानामिति शेषः ।। २१४६॥ नादेनेत्यादिना प्रतिविधत्ते
नादेन संस्कृताच्छोत्राद् यदा शब्दः प्रतीयते।
तदुपश्रेषतस्तस्य बोधं केचित् प्रचक्षते॥२१४७॥ तदुपश्रेषत इति शब्दोपश्रेषतः । तस्य नादस्य। बोधम्=ग्रहणम्। केचित् प्रचक्षतेयद्यपि केवलस्य नादस्य श्रोत्रेणाग्रहणम्, तथापि शब्दोपथुिष्टस्य तु ग्रहणमस्त्येव-इति। बुद्धिद्वयं भवेदेवेति तेषां भावः ॥ २१४७॥
नैव वा ग्रहणे तेषां शब्दे बुद्धिस्तु तद्वशात्।। नैव क्त्यनेनाग्रहणपक्षेऽपि बुद्धिद्वयं समर्थयते। तेषमिति नादानाम् । वायवीयसंयोगविभागात्मनाम्। कथमगृहीतव्यञ्जके व्यङ्ग्ये बुद्धिर्भवेत्? इत्याह-शब्दे बुद्धिस्तुं तद्वशदिति। नादवशात्। तत्सत्तामात्रेणैवेति यावत्। भवतु नाम स्वरूपमात्रग्रहणम्, महत्त्वादिविशेषग्रहणं तु कथं भवति? इत्याह
संस्कारानुकृतेश्चापि महत्त्वाद्यवबुध्यते॥२१४८॥ यदा महद्भिर्नादैर्महान् संस्कार आधीयते श्रोत्रे, तदा महत्त्वं प्रतीयते शब्दे; यदा "त्वल्पैरल्पः, तदाऽल्पत्वमित्येवं संस्कारानुकारात् तरतमभेदोऽपि योज्यः ॥ २१४८ ॥
ननु च यदेतन्महत्त्वादि गृह्यते तद्व्यञ्जकस्थमेव भवन्मते, न व्यङ्ग्यस्थम्; तच्च व्यञ्जकाग्रहणादगृहीतमेवेति तत् कथमगृहीत्वा व्यञ्जकस्थं महत्त्वादि शब्दे समारोपयेत्, न ह्यविषयीकृतस्य जलादेर्मरीचिकादावारोपो भवेत् ? इत्याह
मधुरं तिक्तरूपेण श्वेतं पीततया यथा।
गृह्णन्ति पित्तदोषेण विषयं भ्रान्तचेतसः ॥२१४९॥ [G.598] यथा पित्तदोषेण मधुरादिकं विषयं तिक्तादिरूपेण गृह्णन्त्यगृहीत्वैव पित्तस्वरूपम् ॥ २१४९॥
तथा वेगेन धावन्तो नावारूढाश्च गच्छतः ।
पर्वतादीन् प्रजानन्ति भ्रमेण भ्रमतश्च तान्॥ २१५०॥ यथा वा-आशुगमननौयानभ्रमणैराहितविभ्रमाः पर्वतादीन्. गच्छतो भ्रमतश्च पश्यन्ति१. श्रोथाग्राह्यमिति-जै०।
२. गृहीतव्यव्यञ्जके-पा०, गा० । ३. ०कृते: सापि-जै०।
४-४. त्वल्पैरल्पत्वमित्येवं-पा०, गा० । ५. यथा-गा।