________________
श्रुतिपरीक्षा
मण्डूकवस्याक्ताक्षा वंशानुरगबुद्धिभिः ।
व्यक्त्यल्पत्वमहत्त्वाभ्यां सामान्यं च तदाश्रयम् ॥ २१५१ ॥
यथा च-मण्डूकवसयाऽक्तचक्षुषो वंशानुरगरूपेण वीक्षन्ते । यथा च व्यक्तेरल्पत्वमहत्त्वाभ्यां सामान्यं तदाश्रयम् = व्यक्त्याश्रयम्, अल्पत्वमहत्त्वाभ्यां प्रतिपद्यन्ते, सत्ताख्यं महासामान्यमल्पं तु गोत्वादीति । अन्यथा हि नित्यसर्वगतत्वेन सर्वस्य तुल्यत्वात् किंकृतं सामान्यस्याल्पत्वं स्यात् ॥ २१५० ॥
गृह्णन्ति यद्वदेतानि निमित्तग्रहणाद् विना ।
व्यञ्जकस्थमबुद्ध्वैवं व्यङ्ग्ये भ्रान्तिर्भविष्यति ॥ २१५२ ॥
५११
तस्माद् यद्वदेतानि मधुरादीनि तिक्तादिरूपेण गृह्णन्ति निमित्तस्य पित्तादेर्ग्रहणमन्तरेण, तथा व्यञ्जकस्थं महत्त्वादिकमगृहीत्वैव शब्दे महत्त्वादिभ्रान्तिर्भविष्यति । अबुवेति । भ्रान्तिक्रियापेक्षया समानकर्तृत्वम्, अन्यथा त्वाप्रत्ययो न स्यात् ॥ २१४९-२१५२ ॥
अथ कथमवगतम्–येयं ह्रस्वमहत्त्वादिधीः शब्दे भवति सा परोपाधिका, न तु स्वत एव; महत्त्वादिभेदसद्भावात् ? इत्याह
स्वतो ह्रस्वादिभेदस्तु
. नित्यत्वादेर्विरुध्यते ।
सर्वदा यस्य सद्भावः स कथं मात्रिकः स्वयम् ॥ २१५३ ॥ तस्मादुच्चारणं तस्य मात्राकालं प्रतीयताम् ।
द्विमात्रं वा त्रिमात्रं वा न वर्णो मात्रिकः स्वयम्॥ २१५४॥ आदिशब्देन दीर्घप्लुतोदात्तस्वरितषड्जादिभेदपरिग्रहः । नित्यत्वादेर्विरुध्यत इति । प्रत्यभिज्ञया नित्यत्वस्य सिद्धत्वादिति भावः ॥ २१५३ - २१५४ ॥ नन्वित्यादिना परमतेनाभिव्यक्तेरसिद्धिमाशङ्कते -
ननु नादैरभिव्यक्तिर्न शब्दस्योपपद्यते ।
सां हि स्याच्छब्दसंस्कारादिन्द्रियस्योभयस्य वा ॥ २१५५ ।। तत्र सर्वैः प्रतीयेत शब्दः संस्क्रियते यदि ।
निर्भागस्य विभोर्न स्यादेकदेशे हि संस्क्रिया ॥ २१५६ ॥ [G.599] साऽभिव्यक्तिः शब्दस्य भवन्ती वायवीयैः संयोगविभागैः शब्दसंस्काराद्वा भवेत्, इन्द्रियसंस्काराद्वा, उभयस्य वा - शब्दस्येन्द्रियस्य च संस्कारात् । तत्र यदि शब्दः संस्क्रियते, तदा पाटलिपुत्रादावेकत्र देशे संस्कृतः सर्वदेशस्थैर्गृह्येत; युगपत् तस्य सर्वगतत्वात् । अथापि स्याद्—एकांशस्तस्य संस्कृतः, न तु सर्वः ? इत्याह- निर्भागस्येति । निरवयवो हि शब्द; अमूर्त्तत्वात् । कथं विभुत्वेऽपि निरवयवस्यैकदेशेन संस्कारः स्यात् ! ॥ २१५५-२१५६ ॥
१. अल्पत्वाद्याश्रयम्- पा०, गा० / ३. नित्यवादे विरु० - जै० 1
जस्ट - जै० ।
अथापि स्याद् - आधारभेदान्निरवयवस्यापि सतो भेदेन संस्कारो भविष्यति ? इत्याहन चाप्याधारभेदेन संस्कारनियमो भवेत् ।
२. पा०, गा० पुस्तकयोर्नास्ति ।
४. ततः- पा०, गा० ।