________________
५१२
तत्त्वसंग्रहे
यतः शब्दो निराधारो व्योमात्मादिवदेव च ॥ २१५७ ॥
विभुत्वादाकाशात्मादिवन्निराधारः शब्दः ॥ २१५७ ॥
ननु' 'चाकाशगुणत्वाच्छब्दस्य गुणाः स्वगुणिनमाश्रिता' इत्याकाशमाघारोऽस्ति शब्दस्य ? इत्याह
अथाप्याकाशमाधारस्तत्रानंवयवे
सति ।
न स्यात् प्रदेशसंस्कारः कृत्स्नशब्दगतेरपि ॥ २१५८ ॥
तस्याप्याकाशस्यानवयवत्वान्नाधारप्रदेशभेदेन संस्कारभेदोऽस्ति । ननु च यद्यप्याकाशमनवयवम्, तथापि संयोगिभेदात् घटाकाशदिवत् कर्णशष्कुलीपर्यन्तपरिच्छिन्नमाकाशं भिन्नं भविष्यति ? इत्याह- कृत्स्नशब्दगतेरपीति । न स्यात् प्रदेशसंस्कार इति सम्बन्धः । अखण्ड एव हि शब्दः प्रतीयते सा च प्रतीतिर्व्योमैकदेशसंस्कृतौ न स्यात् ॥ २१५८ ॥
कथमित्येतदेव निगमयन्नाह
न हि सामस्त्यरूपेण यावद् व्योम व्यवस्थितः ।
शक्यते सकलो बोद्धुमेकदेशेन संस्कृतः ।। २१५९ ॥
न ह्याकाशं व्याप्य व्यवस्थितः शब्दस्तदेकदेशेन संस्कृतः शक्यते सकलो ज्ञातुम्
॥ २१५९॥
[G.600] इन्द्रियसंस्कारपक्षे दूषणमाह
आकाश श्रोत्रपक्षे च विभुत्वात् प्राप्तितुल्यता ।
दूरभावेऽपि शब्दानामिति ज्ञानं प्रसज्यते ॥ २१६० ॥ श्रोत्रस्य चैवमेकत्वं सर्वप्राणभृतां भवेत् । तेनैकश्रुतिवेलायां शृणुयुः सर्व एव ते ॥ २१६१ ॥
येषां खं श्रोत्रमिति पक्षः, तेषामेकत्वाद्विभुत्वाच्च नभसः सर्वशब्दैस्तुल्या प्राप्तिरिति दूरस्थस्यापि शब्दस्य ग्रहणं प्राप्नोति । श्रोत्रस्यं च सर्वप्राणभृतामेकत्वं स्यात् । ततश्चैको यदा शृणोति सर्वैरपि श्रूयेत, अभिन्नत्वाच्छ्रोत्रस्य । एकाश्रवणे सर्वेषामश्रवणदोषश्च वक्तव्यः
।। २१६०-२१६१ ॥
स्यादेतत्-धर्माधर्माभिसंस्कृतया कर्णशष्कुल्या परिच्छिन्नमाकाशं श्रोत्रम्, अतः कर्णशष्कुलिमत्याकाशदेशे श्रोत्रव्यवस्थितेर्दोषद्वयमपीदमनास्पदं यद्विभुत्वात् प्राप्तितुल्यता श्रोत्रस्य चैकत्वं सर्वप्राणभृतां भवेदिति ? अत्राह -
तस्यानवयवत्वाच्च न धर्माधर्मसंस्कृतः ।
नभोदेशो भवेच्छ्रोत्रं व्यवस्थाद्वयसिद्धये ॥ २१६२॥
न ह्यनवयवस्य परमार्थतः एकदेशाः सन्ति, येन कश्चिदेव नभोदेशः श्रोत्रं भवेत् । व्यवस्थाद्वयम् प्राप्तेरतुल्यत्वव्यवस्था, श्रोत्रानेकत्वव्यवस्था च । यद्वा-शब्दस्य ग्रहणाग्रहणे व्यवस्थाद्वयम् ॥ २१६२ ॥
११. नन्वाकाश० पा०, मा० 1 ३. ०मिह - पा०, गा० ।
२-२. गुणाश्च गुणिन०- पा०, गा० ।