________________
श्रुतिपरीक्षा
५१३ प्रकृच्च संस्कृतं श्रोत्रं सर्वशब्दान प्रबोधयेत्। किञ्च-सकृत् एकवारं संस्कृतं श्रोत्रं सर्वशब्दान् प्रबोधयेत्=ग्राहयेत्। तस्य सर्वशब्दसाधारणत्वात् । तेषां च शब्दानां विभुत्वेनाभिन्नयोग्यदेशत्वात्।
स्यादेतत्-प्रतिपत्त्यर्थमेव वक्त्रा श्रोतुः श्रोत्रमभिसंस्कृतम्, तमेव शब्दं तच्छ्रोत्रं ग्राहयेन्नान्यम् ? इत्याह
घटायोन्मीलितं चक्षुः पटं नहि न बुद्ध्यते॥२१६३॥
एतदेव प्रसक्तव्यं विषयस्यापि संस्कृतौ। न हि न बुध्यते, अपि तु बुध्यत एव; तुल्यत्वाद् देशयोग्यताया इति भावः । सर्वशब्दग्रहणं कथम् ? इत्याह
समानदेशवृत्तित्वात् संस्कारस्याविशेषतः॥ २१६४॥ सर्वेऽपि हि शब्दा विभुत्वेन समानाकाशदेशवृत्तयः, ततश्चैषां संस्कारोऽप्यविशिष्ट [G.601] एवेति सर्वग्रहणप्रसङ्गः।क्वचित् पाठः- 'संस्कारो ह्यविशेषतः' इति । तत्र हिशब्दो हेतौ। अविशेषत इति। आद्यादित्वात्तृतीयान्तात् तसिः। ततश्चायमर्थो भवति-अविशेषेण यस्माच्छब्दानां संस्कारः कृतः, समानदेशवृत्तित्वात्, ततः सर्वशब्दग्रहः प्रापोतीति॥ २१६३२१६४॥
___ स्यादेतत्-यद्यप्यविशेषेण संस्कारः, तथापि य एव जिधृक्षितः श्रोत्रा शब्दः, स एव गृह्यते नान्य इति ? अत्राह.-.. ..: . स्थिरवायूपनीत्या च संस्कारोऽस्य भवन् भवेत्।
.. इष्टं चावरणापाये तद्देशान्योपलम्भनम् ॥ २१६५॥
द्विविधो हि बायुः- स्थिरः, अस्थिरश्च। तत्र यः स्थिरः, स घनान्धकारवत् शब्दमावृत्यास्ते। तस्य च वक्तृप्रयत्नसमुत्थेन वायुना संयोगविभागा उत्पद्यन्ते । तैश्च संयोगविभागैस्तस्य स्थिरस्य वायोरपनयः क्रियते, स एव च शब्दस्य संस्कारः, नान्यः स्वलक्षणपुष्ट्यादिः; तस्य नित्यत्वेनैकरूपत्वात्। ततः किम्? इत्याह- इष्टमित्यादि । इष्टमिति लोकशास्त्रयोः । यथा घटादेरन्धकारापगमे सति पुरोऽवस्थितस्यानभीष्टस्याप्युपलब्धिर्भवत्येव; योग्यदेशावंस्थानात् ॥ २१६५ ॥
यदुक्तम्- "यत्र सर्वैः प्रतीयेत शब्दः संस्क्रियते यदि" (तत्त्व० २१५६) इति, तत्र न दोषः; यस्मादेकोऽपि शब्द: कञ्चित् पुरुषं प्रत्यसंस्कृतः, कञ्चित् प्रति संस्कृतः; यथा एका स्त्री व्यपेक्षाभेदान्माता च दुहिता चेत्याह. संस्कृतासंस्कृतत्वे च शब्दैकत्वेन सिध्यतः। शब्दस्यैकत्वे सति संस्कृतासंस्कृतत्वे द्वे अवस्थे निष्पर्यायेण न प्राप्तः; अवस्थामा
२-२. दृष्टमावरणाo-पा०, गा० ।
१. संस्मृतौ-पा०, गा०। ३. तद्देशेऽस्योपल-पा०; तद्देशस्थोप०- गा० । ४-४. सद्यनावकारवत्-पा०। ५.५. दृष्टमित्यादि, दृष्टमिति-पा०, गा० ।