________________
५१४
अवस्थातुरभेदात् अवस्थातृस्वरूपवदवस्थयोरप्येकत्वमेव प्राप्नोति । यत्पुनरेका स्त्री माता चोच्यते दुहिता चेति ? तत्र शब्द एव केवलं भिन्नः, न वस्तु । इह तु न व्यपदेशमात्रं भिन्नम्; शब्दस्य सर्वपुरुषग्रहणयोग्यत्वाविशेषेणावस्थानात् । ततश्च ग्रहणाग्रहणे न स्याताम् । न हि व्यपदेशान्यथात्वमात्रेणार्थक्रियानियतस्वभावहानिर्युक्ता ।
अथ प्रतिनियतपुरुषग्राह्य एव तस्य स्वभाव:, तेन ग्रहणाग्रहणे पुरुषशक्तिभेदादविरुद्धे इति चेत् न; येन ह्येकदा न गृहीतः पुरुषेण, तेन न कदाचिदपि गृह्यते । न चैवम् । तस्मान्मा भूदेकत्वहानिरिति एकैवाऽवस्था संस्कृतासंस्कृतयोरन्यतराऽभ्युपगन्तव्या शब्दस्य । ततः किम् ? इत्याह
[G.602] उभयसंस्कारपक्षे दोषमाह
तत्त्वसंग्रहे
एकावस्थाभ्युपेतौ च सर्वैर्ज्ञायेत वा न वा ॥ २१६६ ॥
प्रत्येकाभिहिता दोषाः स्युर्द्वयोरपि संस्कृतौ ।
अतो न व्यञ्जकः शब्दे कथञ्चिदपि युज्यते ॥ २१६७॥. प्रत्येकं शब्दस्येन्द्रियस्य च संस्कारे येऽभिहिता दोषास्ते द्वयोरपि संस्कारे भवेयुः । अत इत्युपसंहरति ॥ २१६७ ॥
उत्तरमित्यादिना प्रतिविधत्ते
॥ २१६८ ॥
उत्तरं श्रोत्रसंस्काराद् भाष्यकारेण वर्णितम् ।
तद्भेदाच्श्रुतिभेदश्च प्रतिश्रोतृव्यवस्थितः ॥ २१६८ ॥
भाष्यकारेणेति । यथोक्तम्- "यस्याप्यभिव्यञ्जन्ति तस्याप्येष न दोषः ; दूरे सत्याः कर्णशष्कुल्या अनुपकारकाः संयोगविभागाः, तेन दूरे यच्छ्रोत्रं 'तन्नोपलभ्यन्ते” (मी०द०, शा०, भा० १.१.१३) इति । तद्भेदादिति' = कर्णशष्कुली श्रोत्रभेदात् । श्रुतिभेदः प्रतीतिभेदः
१.
ननु च कथमन्यस्य संस्कारेऽन्यस्याभिव्यक्तिर्भवति ? इत्याह-यथा घटादेर्दीपादिरभिव्यञ्जक इष्यते । चक्षुषोऽनुग्रहादेव ध्वनिः स्याच्छ्रोत्रसंस्कृतेः ॥ २१६९ ॥
यथा हि दीपादिश्चक्षुषोऽनुग्रहेण घटादेरभिव्यञ्जको भवति, तथा ध्वनिरपि श्रोत्रसंस्कृतेः श्रोत्रसंस्करणात्, शब्दस्याभिव्यञ्जको भविष्यति ॥ २१६९ ॥
ननु च वक्तव्यमेतत् - केन प्रकारेण ध्वनिना श्रोत्रस्य संस्कारः क्रियते निष्पन्नस्य ? इत्यत आह
=
न च पर्यनुयोगोऽत्र केनाकारेण संस्कृतिः ।
उत्पत्तावपि तुल्यत्वाच्छत्तिस्तत्राप्यतीन्द्रिया ॥ २१७० ॥
उत्पत्तावपि तुल्यत्वात्, पर्यनुयोगस्येति शेषः । उत्पत्तावपि हि शब्दस्य कारणेभ्यः सत्यां तुल्यं पर्यनुयोगः, तत्रापि शक्यत एवैतद् वक्तुम् - केनाकारेण ध्वनिना वायवीयसंयोगविभागात्मकेनाऽन्येन वा कारणेन कथं शब्दः क्रियत इति; यतः शक्तिस्तत्राप्यतीन्द्रिया २. तत्र भेदादिति- जै० 1
तेन नोपलभ्यन्ते - पा०, गा० ।