________________
श्रुतिपरीक्षा
५१५ तत्रापि शब्दानामुत्पत्तौ क्रियमाणायाम्। शब्दकारणानां यथोत्पादकशक्तिरतीन्द्रिया, तथाभिव्यक्तावपीति तुल्यः पर्यनुयोगः ॥ २१७० ।। यदयतीन्द्रिया शक्तिः, सा कथमनुमातव्या? इत्याह
नित्यं कार्यानुमेया च शक्तिः किमनुयुज्यते।
तद्भावभावितामात्रं प्रमाणं तत्र गम्यते॥२१७१॥ [G.603] उत्पादकशक्तिर्वा, अभिसंस्कारकशक्तिर्वा भवतु, सर्वथा यावती काचिच्छक्तिः सा सर्वा सदैव कार्यानुमेया। तस्मात् सा नानुयोगमर्हति। किं तत्कार्यं यतः सा गम्यते? इत्याह- तद्भावेत्यादि। तद्भावे ध्वनिभावे सति, तद्भाविता शब्दग्रहणस्य भाविता या, तदेव तत्र शब्दव्यक्तौ प्रमाणम्। शब्दग्रहणकार्येण शक्तिर्गम्यत इति यावत्। 'मात्रग्रहणेनोत्पत्तेर्निरासः ॥ २१७१॥
अतोऽतीन्द्रिययैवैते शक्त्या शक्तिमतीन्द्रियाम्।
इन्द्रियस्यादधाना हि स्युरभिव्यक्तिहेतवः ॥२१७२॥ अत इत्युपसंहरति । तस्मादेते ध्वनयोऽसीन्द्रियया शक्त्या श्रोत्रेन्द्रियस्य शक्तिमतीन्द्रियामुत्पादयन्तः स्फुरन्ति व्यक्तिहेतवः शब्दानामित्यपेक्षणीयम्॥ २१७२॥ अथोत्पत्तिहेतव एव कस्माद् ध्वनयो न विज्ञायन्ते? इत्याह
येषां त्वप्राप्तजातोऽयं शब्दः श्रोत्रेण गृह्यते। तेषामप्राप्तितुल्यत्वाद् दूरव्यवहितादिषु॥२१७३॥ तत्र दूरसमीपस्थग्रहणाग्रहणे समे।
स्यातां न च क्रमो नापि तीव्रमन्दादिसम्भवः॥२१७४॥ येषां बौद्धानां शब्दोऽप्राप्तजातो गृह्यते श्रोत्रेण। अप्राप्तश्चासौ जातश्चेत्यप्राप्तजातः । चक्षुःश्रोत्रमनोऽप्राप्तविषयम्; उपात्तानुपात्तमहाभूतहेतुः शब्द इति सिद्धान्तात्। तेषां मतेन शब्दानां दूरव्यवहितसमीपस्थांनं श्रोत्रेणाप्राप्तेस्तुल्यत्वाद् दूरसमीपस्थैः पुरुषैर्ग्रहणाग्रहणे तुल्ये स्याताम्, समीपस्थस्य यादृशं ग्रहणं तादृशं दूरस्थस्यापि स्याद्; अविशेषात्। क्रमेण च ग्रहणं न स्यात्- यत्पूर्वं समीपस्थैर्ग्रहणम्, पश्चाद् दूरस्थैरिति । नापि तीव्रमन्दतरतमादिश्रुतिभेदः स्यात्- यत्समीपस्थैस्तीव्रः श्रूयते, मन्दो दूरस्थैरिति । एवं तरतमभेदोऽपि योज्यः ॥ २१७३२१७४॥ .. . . ..
ननु यस्यापि मीमांसकस्य प्राप्ताजातः शब्दो गृह्यते श्रोत्रेण, तस्यापि कस्मादेव सर्वप्रसङ्गो न भवतीति ? अतः प्रतिपादयितुं विशेषमुपक्रमते
तस्माच्छोत्रियदृष्ट्यापि कल्पनेयं निरीक्ष्यताम्।
प्रयत्नाभिहतो वायुः कोष्ठयो यातीत्यसंशयः ॥२१७५॥ [G.604] श्रोत्रियग्रहणमतार्किकत्वप्रतिपादनपरम्। अनेन च स्वपक्षोत्कर्षं वक्रोक्त्या कथयति। काऽसौ कल्पना? इत्याह- प्रयत्नाभिहत इत्यादि। प्रयत्न:-ताल्वादिकरणव्यापारः, १. शब्दव्यञ्जकशक्तौ-पा०, गा० ।
२. ग्रहणेनोत्पत्तौ जै०, पा० । ३. स्फुरन्ति व्यक्तिहेतवः-पा०, गा० ।
४. जातीत्यसंशय:-पा०, गा०।