________________
५१६
तत्त्वसंग्रहे तेनाभिहत:=प्रेरितः, कोष्ठभवो वायुर्नाभिप्रदेशादुत्थित उरसि विस्तीर्णः कण्ठे वर्त्तितो मूर्द्धानमाहत्य वक्त्रे सञ्चरनिर्गच्छति ॥ २१७५ ॥ ___ एतदेव दर्शयति'
स संयोगविभागौ च ताल्वादेरनुरुध्यते। .. वेगवत्त्वाच्च सोऽवश्यं यावद्वेगं प्रतिष्ठते ॥२१७६ ॥ तस्यात्मावयवानां च स्तिमितेन च वायुना। संयोगा विप्रयोगाश्च जायन्ते गमनाद् ध्रुवम्॥२१७७॥ कर्णव्योमनि सम्प्राप्तः शक्तिं श्रोत्रे नियच्छति। तद्भावे शब्दबोधाच्च संस्कारोऽदृष्ट इष्यते॥२१७८॥
उत्पत्तिशक्तिवत् सोऽपीत्यधिकं नो न किञ्चन। स वायुर्निष्क्रामस्ताल्वादेः संयोगविभागावनुभवति गच्छंश्च, न स यावदाकाशमभिगच्छंति, किं तर्हि ? यावद्वेगम् यावाँस्तस्य वेगस्तदनुरूपमेव गच्छतीति यावत् । कुतः? वेगवत्त्वात्। तस्य च वायोर्गच्छत आत्मीयावयवानां स्तिमितेन स्थिरेण वायुना संयोगविभागाः समुपजायन्ते। अवश्यं स च कर्णरन्ध्र प्राप्य श्रोत्रे शक्तिमाधत्ते । तद्भावे-वायवीयसंयोगविभागसद्भावे सति, शब्दस्यावगमाददृष्टः संस्कारः श्रोत्रस्येष्यते। तथा शब्दस्य शब्दान्तरैर्ध्वनिभिर्वोत्पत्तिरदृष्टाऽपीष्यते भवद्भिः, तथा संस्कारोऽपीति । यथोक्तं भाष्ये "अभिघातेन प्रेरिता वायवः५ स्तिमितानि वस्त्वन्तराणि प्रतिबाधम्पना: सर्वतोदिक्कान् संयोगविभागानुत्पादयन्तो यावद्वेगमभिप्रतिष्ठन्ते, ते च वायोरप्रत्यक्षत्वात् संयोगविभागा नोपलभ्यन्ते। अनुपरतेष्वेव च तेषु शब्द उपलभ्यते, नोपरतेषु" (मी०द०, शा०भा० ५.१.१३) इति । यद्येवम्, न तर्हि संस्कारपक्षस्योत्पत्तिपक्षाद्विशेषकथितो भवति? इत्याह
तथैव तद्विशेषोऽपि 'विशिष्टंग्रहणाद भवेत्॥२१७९॥ तद्विशेष: संस्कारविशेषः, शब्दग्रहणविशेषादुपपद्यते। तेन दूरसमीपस्थानां ग्रहणाग्रहणे न समे भवतः, पुरुषभेदेन संस्कारस्य भिन्नत्वात् ॥ २१७५-२१७९ ॥ कुड्याद्यावरणे कथमग्रहणं शब्दस्य? इत्याह
कुड्यादिप्रतिबन्धोऽपि युज्यते मातरिश्वनः । श्रोत्रदेशाभिघातोऽपि तेन तीव्रप्रवृत्तिना॥२१८०॥ तस्य च क्रमवृत्तित्वात् क्षयिवेगित्वसम्पदः।
संस्कारक्रमतीव्रत्वमन्दतादिनिमित्तता ॥२१८१॥ |G.605) यद्यपि शब्दो न प्रतिघाती, तथापि मातरिश्वनः वायोः कुड्यस्य च मूर्तत्वे प्रतिघातित्वान कर्णदेशागमनमिति श्रोत्रसंस्कारो न जायते, तेनावृत्तस्याश्रवणं भवति। येषां त्वप्राप्तस्य ग्रहणं तेषामेष दोष एव। तीव्रमन्दतरतमश्रुतिभेदस्तर्हि' कथं भवति? इत्याह१. दर्शयति (....)-गा।
२. विशेष०-'पा०, गा०। ३. पित्तदृष्टश०-पा०: ०त्पतेरदृष्टा-गा०।
४. भवद्भिश्शक्ति:- पा०। ५-५. प्रेरितावयव.-पा०, गा०।
६. प्रबाधमाना:- पा०, गा०।