________________
श्रुतिपरीक्षा
५१७ श्रोत्रदेशाभिघातोऽपीति । 'युज्यते' इति प्रकृतं सर्वत्र योजनीयम्। क्षयिवेगित्वसम्पद इति । क्षयित्वसम्पदो वेगित्वसम्पदो युज्यन्त इति विभक्तिविपरिणामेन सम्बन्धः। अथ वाक्षयिण्यश्च ता वेगित्वसम्पदश्चेति विग्रहः । यद्वा-क्षयिणी वेगित्वसम्पद्यस्य वायोरिति बहुव्रीहिः । ततश्च संस्कारक्रमतीव्रमन्दतानिमित्तता युज्यत इति सम्बन्धः । संस्कारक्रमो युज्यते; तस्य वायोः क्रमवृत्तित्वात्। तीव्रता च युज्यते; वेगित्वसम्पदा युक्तत्वात्। मन्दताऽपि च; क्षयित्वात् । आदिशब्देन तरतमादिभेदो योज्यः ॥ २१८०-२१८१ ॥
ननु च- "आकाशश्रोत्रपक्षे च विभुत्वात् प्राप्तितुल्यता" (तत्त्व० २१६०) इत्यादिना श्रोत्रसंस्कारे दोषा बहवः पूर्वमुक्ताः, तत्कथमुत्तरं श्रोत्रसंस्काराद् भाष्यकारेण वर्णितम्? इत्याह
नावश्यं श्रोत्रमाकाशमस्माभिश्चाभ्युपेयते। न चानवयवं व्योम जैनसाङ्ख्यनिषेधतः॥२१८२॥ तेनाकाशैकदेशो वा यद्वा वस्त्वन्तरं भवेत्।
कार्यार्थापत्तिगम्यं तच्छ्रोत्रं प्रतिनरं स्थितम्॥२१८३॥ तेन तत्पक्षभाविनो दोषास्तदनङ्गीकारादेव नापतन्तीत्युक्तं भवति। न चानवयवं व्योमेति। अभ्युपेयत इति सम्बन्धः । कुतः? जैनसाङ्घयनिषेधत:- जैनै:-आर्हतैः, साक्यैश्चनिरवयवस्य व्योम्नो निषिद्धत्वात्। न हि मीमांसकैः परसिद्धान्तप्रसिद्धेर्न व्यवह्रियते। यदेव हि युक्त्या समापतति तदेव तैरङ्गीक्रियते, अन्यथा मीमांसकत्वमेव हीयेत। ततश्च
जैनसायप्रसिद्धव्योमात्मकश्रोत्राङ्गीकरणान्न दोषः। यद्वा वस्त्वन्तरमिति। कर्णशष्कुलीसंज्ञकम्। कार्यार्थापत्तिगम्यमिति । शब्दग्रहणान्यथानुपपत्तिगम्यम्॥ २१८२-२१८३ ॥ __अथ वा-अनवयवाकाशश्रोत्रपक्षेऽपि न दोष इति प्रतिपादयन्नाह- यद्यपीत्यादि।
यद्यपि व्यापि चैकं च तथापि ध्वनिसंस्कृतिः।
अधिष्ठाने तु सा यस्य स शब्दं प्रतिपद्यते॥२१८४॥ [G.606] श्रोत्रमिति शेषः । तथापि सा ध्वनिभिः संस्कृतिर्यस्य पुरुषस्याधिष्ठाने= कर्णशष्कुल्यां भवति, स एव शब्दं प्रतिपद्यते, नान्यः। अनेनाधिष्ठानसंस्कार एवोक्तः, न श्रोत्रस्य। तस्य चाधिष्ठानस्य प्रतिपुरुषं भिन्नत्वान्न यथोक्तदोषप्रसङ्ग इति भावः ॥ २१८४ ॥ श्रोत्रसंस्कारेऽपि न दोष इति प्रतिपादयति
अथापीन्द्रियसंस्कारः सोऽप्यधिष्ठानदेशतः।
शब्दं न श्रोष्यति श्रोत्रं तेनासंस्कृतशष्कुलि॥२१८५॥ अधिष्ठानम्=कर्णशष्कुली। तत्संस्कारद्वारेण श्रोत्रस्य संस्कारः, न केवलस्य । तेनासंस्कृताधिष्ठानत्वाच्च विदूरस्थान्यचित्तसुप्तमूर्च्छितानां श्रोत्रं न शृणोति । असंस्कृता कर्णशष्कुली यस्य तत्तथोक्तम्। अधिष्ठानदेशत इति सप्तम्यर्थे तसिः ॥ २१८५ ॥
ननु यदि ध्वनयोऽधिष्ठानं तद्देशं वेन्द्रियं संस्कुर्वन्ति, कस्माद्यत्र वचनोपलब्धसद्भावाः सकलप्राणिजातेन्द्रियाधिष्ठानसंस्कारकारिणो न भवन्ति? इत्याह१. तीव्रतरतम०- पा०, गा०।
२. पा०, गा०, पुस्तकयो स्ति।