________________
५१८
तत्त्वसंग्रहे अप्राप्तकर्णदेशत्वाद् ध्वनेर्न श्रोत्रसंस्क्रिया।
अतोऽधिष्ठानभेदेन संस्कारनियमः स्थितः ॥२१८६॥ यद्यप्यधिष्ठानसंस्कारकारिणो नादाः, तद्देशेन्द्रियसंस्कारका वा; तथापि प्राप्ता एव सन्तः संस्कारभाजिपदार्थे संस्कारं कुर्वन्ति, नाप्राप्ताः-इत्यतो न सर्वपुरुषाधिष्ठानादिसंस्कारः। श्रोत्रग्रहणमुपलक्षणम्। अधिष्ठानसंस्कारोऽपि न भवत्येव । क्वचित्-अप्राप्तकर्णदेशाद् वा इति पाठः । तत्र पूर्वमधिष्ठानसंस्कारमुखेन श्रोत्रसंस्कारमाश्रित्य परिहार उक्तः । साम्प्रतं मा भूदधिष्ठानसंस्कारद्वारेण श्रोत्रसंस्कारः, तथाप्यदोषः; यतः प्राप्तकर्णशष्कुलीमूला एव वायवः श्रोत्रसंस्कारायालम्, नाप्राप्ता इत्यतः पक्षान्तरमुक्तम्। अत इत्युपसंहारः ॥ २१८६ ॥ नन्वित्यादिना पक्षत्रयेऽप्यनन्तरोदिते परस्य चोद्यमाशङ्कते
नन्वेकस्मिन्नधिष्ठाने लब्धसंस्कारमिन्द्रियम्।
बोधकं सर्वदेहेषु स्यादेकेन्द्रियवादिनः ॥ २१८७॥ [G.607] एकस्य श्रोत्रस्य संस्कृतासंस्कृतपरस्परविरुद्धधर्मद्वयायोगादेकत्र संस्कारात् सर्वदेहेष्वभिन्नत्वात् संस्कृतमेवेति बधिरादेरपि बोधकं प्राप्नोति श्रोत्रमेकेन्द्रियवादिनः । ततश्च बाधिर्यादिव्यवस्थानं न स्यात् ॥ २१८७॥ पुंसमित्यादिना प्रतिविधत्ते
पुंसां देहप्रदेशेषु विज्ञानोत्पत्तिरिष्यते।
तेन प्रधानवैदेश्याद् विगुणा श्रोत्रसंस्कृतिः॥२१८८॥ _ 'पुंसामात्मनां सर्वगतत्वेऽपि शरीरेप्वेव धर्माधर्मपरिगृहीतेषु विज्ञानोत्पत्तिर्मीमांसकादिभिरिष्यते। तेन प्रधानस्य देहस्य वैदेश्यात्-भिन्नदेशत्वात्। श्रोत्रस्यैवं सर्वगतस्यापि संस्कृतिर्विगुणा, तेन यथोक्तदोषानवसरः । क्वचित्- सात्र संस्कृतिरिति पाठः । तत्र सा संस्कृतिः श्रोत्रस्येति सम्बन्धः ॥ २१८८॥ ननु च सर्वगतत्वादात्मनः सर्वत्र ग्रहणप्रसङ्गः शब्दस्यानिवारित एव? इत्याह
निष्प्रदेशोऽपि चात्मा न: कार्ये च विभजन्नपि।
शरीर एवं गृह्णातीत्येबमुक्ते' न' दुष्यति॥२१८९॥ एतदुक्तं भवति–यद्यप्येवम्, तथापि धर्मादिवशीकृतशरीरावधिकमेवात्मनः शब्दग्रहणम्, अतो न दोषः । कथं पुनरभिन्नस्यात्मनः श्रोत्रस्य च ग्रहणाग्रहणसंस्कारासंस्कारविभाग इति चेत् ? न; यथा आकाशस्यानवयवस्यापि संयोगिपदार्थभेदाद्-घटाकाशम्, पिठराकाशमिति भेदो भवति, तथेहापि भविष्यति ॥ २१८९॥
__ अत एव च व्यापिनिरवयवस्य श्रोत्रस्य संसर्गिभेदाद् बाधिर्यादिव्यवस्थितिरिति दर्शयति
बाधिर्यादिव्यवस्थानमेतेनैव च हेतुना।
तदेवाभोग्यमन्यस्य धर्माधर्मावशीकृतम्॥ २१९० ।। संयोगिभेदेन हेतुना। यदि नाम संयोगिनो भिन्नाः, तथापि किमिति कश्चिदेव बधिरो १-१. मुक्तिन-पा०, गा०। २. पा०, गा० पुस्तकयो स्ति। ३. ०बाधिर्यादीति-गा।