________________
श्रुतिपरीक्षा भवति? इत्याह-तदेवाभोग्यमिति। तदेव श्रोत्रमन्यस्य पुरुषस्य न भोग्यं भवति, कुतः? धर्माधर्माभ्यामवशीकृतत्वात्॥ २१९०॥ एतदेव दृष्टान्ते स्फुटयन्नाह
' यथा तत्र भवनैव स्वामित्वादवरोपितः। ..
__न भोगं लभते तद्वद् बधिरोऽन्यत्र शृण्वति॥२१९१॥
यथा कश्चिद् ग्रामादेः स्वामी तत्र ग्रामादौ भवन्नेव विद्यमान एव [G.608] राज्ञा स्वामित्वादवरोधितस्तस्मिन्नेवग्रामे भोगं न लभते, तद्वद् बधिरोऽन्यत्रान्यस्मिन् पुरुषे शृण्वत्यपि सति न शृणोति ॥ २१८९-२१९१॥ : ..
. ननु च-श्रोत्रशब्दाकाशानां त्रयाणामपि निरवयवत्वाद् विभुत्वाच्च न प्रदेशवृत्तिरस्ति, तत्कथमेकदेशावृत्तित्वनियतग्रहणादिविभागो लभ्यते? इत्याह
श्रोत्रशब्दाश्रयाणां च न नामावयवाः स्वयम्।
न चैकदेशवृत्तित्वं तथाप्येतन्न दुष्यति॥२१९२॥ श्रोत्रं च शब्दश्चश्रयश्च शब्दस्याकाशमिति श्रोतशब्दाश्रयाः । न नामावयवाः स्वयमिति। संयोगिभेदात् उपचरितास्तु विद्यन्त एवेति स्वयमित्याह। तथाप्येतदिति । प्रदेशवृत्तित्वनियतग्रहणादिकम् ॥ २१९२ ॥ कथम्? इत्याह
व्यञ्जकानां हि वायूनां भिन्नावयवदेशता।
जातिभेदश्च तेनैव संस्कारो व्यवतिष्ठते॥२१९३॥ भिन्ना अवयवदेशाः कर्णशष्कुल्यधिष्ठानसंज्ञिता येषां ते तथोक्ताः । तद्भावः भिन्नावयवदेशता। जातिभेदश्चेति। भिन्नताल्वादिकारणसामग्रीभेदात् ॥ २१९३॥ ननु चोक्तम्-. "सकृच्च संस्कृतं श्रोत्रं सर्वशब्दान्प्रबोधयेत्" इत्यत्रोत्तरमाह
- अन्यार्थं प्रेरितो वायुर्यथा नान्यं करोति वः।
· तथाऽन्यवर्णसंस्कारसक्तो नान्यं करिष्यति ॥२१९४॥
अन्याथमिति अन्यवर्णनिष्पत्त्यर्थम् । अन्यवर्णसंस्कारसक्त इति । अन्यवर्णप्रतीत्यर्थः संस्कारो यः श्रोत्रस्य सोऽन्यवर्णसंकारशब्देनोक्तः । न तु वर्णसंस्कार एव; श्रोत्रसंस्कारस्य प्रकृतत्वात् । नान्यं करिष्यतीति । नान्यं वर्णं श्रोत्रसंस्कारद्वारेण संस्करिष्यतीत्यर्थः ॥२१९४॥ '. अथ श्वा-वायूनामेव कस्मादेव प्रतिनियमः? इत्याह
___ अन्यैस्ताल्वादिसंयोगैर्वर्णो नान्यो यथैव च।
तथा ध्वन्यन्तरक्षेपो न ध्वन्यन्तरसारिभिः॥२१९५॥ ताल्वादिसंयोगभेदाद् व्यञ्जका वायवो ध्वनयो भिन्ना इत्यभिप्रायः। वर्णो नान्य [G.609] इति । क्रियते इत्यध्याहारः । ध्वन्यन्तराणां क्षेप:=प्रेरणम्। ध्वन्यन्तरसारिभिस्ताल्वादिसंयोगैरिति सामानाधिकरण्यम्॥ २१९५॥ १. ०दवरोपन:- जै०। २. ०दवरोपित०-पा०, गा० । ३. पा० पुस्तके नास्ति। ४. ०मेकदेशवृत्ति०-पा०, गा० । ५. स:-पा०, गा०। ६. ०शक्तो-पा०, गा०। ७. पा०, गा० पुस्तकयो स्ति।