________________
५२०
तत्त्वसंग्रहे
तस्मादुत्पत्त्यभिव्यक्त्योः कार्यार्थापत्तितः समः।
सामर्थ्यभेदः सर्वत्र स्यात् प्रयत्नविवक्षयोः ॥२१९६॥ तस्मादित्युपसंहरति। उत्पत्त्यभिव्यक्त्योरिति सप्तम्यन्तम्। शब्दस्योत्पत्तावभिव्यक्तौ च प्रयत्नस्य विवक्षायाश्च तुल्यः सामर्थ्यभेदः । कुतः? कार्यान्यथानुपपत्तिगम्यत्वात्। उभयत्रापि कार्यार्थापत्तेर्व्याप्रियमाणचादिति यावत् ॥ २१९६ ॥
एवं तावत् सिद्धान्तान्तरप्रतीतं लोकप्रतीतं च यथाक्रममाकाशकर्णशष्कुलीलक्षणं श्रोत्रमभ्युपगम्य तत्संस्कारद्वारेण शब्दाभिव्यक्तौ न दोष इति प्रतिपादितम् । साम्प्रतं वेदप्रसिद्ध दिग्लक्षणं श्रोत्रमाश्रित्य तत्संस्कारभेदाच्छब्दाभिव्यक्तावदोषं प्रतिपादयन्नाह
यद्वा-वेदानुसारेण कार्या दिक्श्रोत्रतामतिः। .... दिक्श्रोत्रतामतिरिति । दिगेव श्रोत्रम्-इत्येवं दिशः श्रोत्रत्वनिश्चयः कार्य इत्यर्थः । कथम्? इत्याह
नाकाशाद्यात्मकं ह्यक्तं वेदे श्रोत्रं कधञ्चन॥२१९७॥. यद्येवम्, दिक्श्रोत्रमित्येवमपि वेदे नोक्तम्, तत्कथं लभ्यते? इत्याह
दिशः श्रोत्रमिति ह्येतत् प्रलयेष्वभिधीयते।
तच्च प्रकृतिगामित्ववचनं चक्षुरादिवत्॥ २१९८॥. प्रकृतिषु स्वभावेषु लया: प्रलयाः। नाशकाले प्राणिनां चक्षुरादयः स्वस्यां प्रकृतौ लीयन्ते । तत्र च प्रलये पशुमधिकृत्योक्तं वेदे- "सूर्यमस्य चक्षुर्गमयतात्, दिशः श्रोत्रम्" ( ) इति अत्रापि गमयतादिति सम्बन्धः। गमयतादिति-यद्यत आगतं तत्तत्र गच्छत्वित्यर्थः । तेन यद्यपि वेदे दिक् श्रोत्रमित्याहत्य नोक्तम्, तथापि "दिशः श्रोत्रं गमयतात्" इत्यनेन वाक्येन सामर्थ्यादुक्तमेव। कथम्? इत्याह- तच्छेत्यादि। तच्च दिशः श्रोत्रमिति वचनं श्रोत्रस्य प्रकृतिगामित्वप्रतिपादनपरम्। श्रोत्रं कर्तृ दिशो गच्छतु प्रकृतिभूता इत्यर्थः । कथमिव? इत्याह-चक्षुरादिवदिति ॥ २१९८॥. . एतदेव विवृणोति
सूर्यमस्य यथा चक्षुरुक्तं गमयतादिति।
तेजःप्रकृतिविज्ञानं तथा श्रोत्रं दिशात्मकम्॥२१९९॥ [G.610] यथा 'सूर्यमस्य चक्षुर्गमयतात्' इति वाक्येन तेज:प्रकृतिविज्ञानमुक्तम्, चक्षुष इत्यध्याहारः, तथा श्रोत्रं दिगात्मकमुक्तम् 'दिशः श्रोत्रम्' इत्यने वाक्येन-इत्येवं पदानां सम्बन्धः कार्यः । तेजःप्रकृतिविज्ञानं तेजोमयत्वमित्यर्थः ।। २१९९॥ अथ कीदृशी सा दिक् ? इत्याह. दिक् च सर्वगतैकैव यावद्वयोम व्यवस्थिता।
कर्णरन्ध्रपरिच्छिन्ना श्रोत्रमाकाशदेशवत्॥२२००॥ सर्वगतस्यैव विवरणम्- यावद्वयोम व्यवस्थितेति। यद्येवम् बधिरादिव्यवस्था न १. प्रतिचोदितम्-पा०, गा०।
२. ननु संस्कार०-०। ३. चक्षुर्भक्तं-पा०।