________________
श्रुतिपरीक्षा
५२१
प्राप्नोति, एकत्वाद्दिशः ? इत्याह- कर्णरन्ध्रेत्यादि । न सर्वात्मना दिक् श्रोत्रम्, किं तर्हि ? कर्णशष्कुलीपर्यन्तपरिच्छिन्ना ॥ २२०० ॥
ननु निरवयवत्वात् तस्य कथमवयवविभागो लभ्यते ? इत्याहयावाँश्च कश्चन न्यायो नभोभागत्वकल्पने ।
दिग्भागेऽपि समस्तोऽसावागमात् तु विशिष्यते ॥ २२०१ ॥ यथाऽऽकाशस्य संयोगिभेदेन नावयव कल्पना, तथा दिशोऽपि भविष्यति । कस्तर्ह्याकाश श्रोत्रपक्षादस्य विशेष: ? इत्याह- आगमादिति ॥ २२०१ ॥ तस्माद् दिग्द्रव्यभागो यः पुण्यापुण्यवशीकृतः । कर्णरन्ध्रपरिच्छिन्नः श्रोत्रं संस्क्रियते च सः ॥ २२०२ ॥ तस्मादित्युपसंहारेण बधिरादिव्यवस्थानं सूचयति ॥ २२०२ ॥ विषयसंकारपक्षेऽपि न दोष इति प्रतिपादयन्नाह -
विषयस्यापि संस्कारे तेनैकस्यैव संस्कृतिः ।
नरैः सामर्थ्यभेदाच्चं न सर्वैरवगम्यते ॥ २२०३॥
यदुक्तम् — “यत्र सर्वैः प्रतीयेत शब्दः संस्क्रियते यदि" (तत्त्व० २१५६ ) इति, तत्र न दोषः । कुतः ? नराणां सामर्थ्यभेदात् । वायोः श्रोत्रसंस्कारकस्य सन्निधानासन्निधानाभ्यां श्रोत्रसंस्कारस्य भिन्नत्वात् सामर्थ्यभेदः ॥ २२०३॥
ननु च नित्यसर्वगतत्वेन सर्वान् पुरुषान् प्रत्यविशिष्टत्वाच्छब्दस्य कथं ग्रहणाग्रहणे स्याताम् ? इत्याह
यथैवोत्पद्यमानोऽयं न सर्वैरवगम्यते ।
•
दिग्देशादिविभागेन सर्वान् प्रति भवन्नपि ॥ २२०४ ॥ तथैव यत्समीपस्थैर्नादैः स्याद्यस्य संस्कृतिः ।
तेनैव श्रूयते शब्दो न दूरस्थैः कथञ्चन ॥ २२०५ ॥
[G.611] अथ कथमिदमवसीयते - वायुभ्यो विषस्य संस्कारो भवति, न तु विषय एव ?
इत्याह
शब्दोत्पत्तेर्निषिद्धत्वादन्यथाऽनुपपत्तितः ।
विशिष्टसंस्कृतेर्जन्म ध्वनिभ्योऽध्यवसीयते ॥ २२०६ ॥
प्रत्यभिज्ञया शब्दस्य विभुत्वैकत्वयोः सिद्धत्वान्न शब्दोत्पत्तिः । तस्मात् सामर्थ्यात् संस्कारोत्पत्तिर्ध्वनिभ्यो भवति, न शब्दस्येति गम्यते ॥ २२०६ ॥
ननु च बीजाङ्कुरादिव' तद्भावभावितया ध्वनिकार्यत्वं शब्दानां सिद्धम् । यथा हिबीजादिभावेऽङ्कुरादीनामुपलम्भात् तत्कार्यत्वं तेषाम्; एवं ध्वनिभावे शब्दानामुपलम्भोऽस्ति, किमिति तत्कार्यत्वं न भवेत्, एतावन्मात्रनिबन्धत्वात् कार्यव्यवहारस्य ? इत्याहतद्भावभाविता चात्र शक्त्यस्तित्वावबोधिनी ।
श्रोत्रशक्तिवदेवेष्टा बुद्धिस्तत्र हि संहृता ॥ २२०७ ॥
२. साद्यस्य- जै० ।
१. समश्चासा०- पा०, गा० ।
-
३. समश्चासा०- पा०, गा० ।