________________
५२२
तत्त्वसंग्रहे यथा हि-श्रोत्रभावे शब्दो पलम्भोऽस्ति, न च ततस्तद्भावभावित्वाच्छ्रोत्रस्य शब्दं प्रति जननशक्तिरनुमीयते, किं तर्हि ? ग्रहणशक्तिः; एवमिहापि ध्वनीनां शक्तिसद्भावमात्रावबोधिनी भवेत् तद्भावभाविता, न तूत्पादकशक्त्वबोधिनी। शक्तिमात्रे तस्याः प्रतिबन्धो न तु शक्तिविशेष इति यावत्। अतः शक्तिविशेषे साध्ये व्यभिचारित्वमस्या इति प्रतिपादितं भवति । कथमिदानीं संस्कारशक्तिविशेषावगतिः? इत्याह- बुद्धस्तत्र हि संहतेत । प्रत्यभिज्ञया नित्यत्वस्य सिद्धत्वात्। अन्यथानुपपत्त्या बत्र संस्कारविशेषे तु बुद्धिरुपसंहता भाष्यकारेण, न तु तद्भावभावितामात्रतः संस्कारशक्तिरनुमीयत इत्यर्थः ॥ २२०७॥
उभयसंस्कारपक्षे यदुक्तम्-"प्रत्येकाभिहिता दोषाः स्युर्द्धयोरपि संस्कृतौ" (तत्त्व० २१६७) इति, अत्राह
संस्कारद्वयपक्षे तु वृथा दोषद्वयं हि तत्।
येनान्यतरवैकल्यात् सर्वैः शब्दो न गम्यते॥२२०८॥ [G.612] दोषद्वमुभयोरपि पक्षयोर्यत् प्रागुक्तम्, तत्तु वृथा अनर्थकम्। कथम्? इत्याहयेनेत्यादि। येनेति यस्मात्। अन्यतरस्य-श्रोत्रसंस्कारस्य वा वैकल्यात् । न शब्दो गम्यते। तथा हि-सत्यपि शब्दसंस्कारे बधिरस्य श्रोत्रसंस्कारवैकल्यान शब्दग्रहणम्। अबंधिरस्याप्यन-. भिव्यक्तेः शब्दग्रहणम्' । क्वचित् पाठः-मृषा दोषद्वये वच इति । स च सुबोधः ॥ २२०८ ॥
ननु च यदि सर्वगतः शब्दः, कथमस्य घटादेरिव देशविच्छेदे नानात्वमुपलभ्यते; यावता सर्वत्र सद्भावादविच्छिन्नरूपेण सर्वत्रावगतिर्युक्ता। न च सर्वगतस्य दूरासन्नादिभेदो युक्तः । नाप्यागमः कुतश्चिद्देशात्; तस्य सर्वत्र स्थितत्वात् । नापि नित्यस्य दीर्घहस्वमन्दतरतमादिस्वभावभेदो युक्तः । तस्माद्देशकालस्वभावभेदेन वेद्यमानत्वाद् घटादिवद्भिन्नोऽनित्यश्चसिद्धः शब्द इति तत्कथमुच्यते
"शब्दोत्पत्तेनिषिद्धत्वादन्यथाऽनुपपत्तितः । विशिष्टसंस्कृतेर्जन्म ध्वनिभ्योऽध्यवसीयते ॥"
(थो०वा०, श० नि० १२६-१२७) इति? अत्राह
जलादिषु यथैकोऽपि नानात्मा सवितेक्ष्यते।
युगपन्न च भेदोऽस्य तथा शब्दोऽपि गम्यताम्॥ २२०९॥ अनेन देशभेदेन वेद्यमानत्वस्यानैकान्तित्वमाह ॥ २२०९॥
ननु च जलाद्याधारभेदः सवितर्यनेकत्वव्यामोहकारणमस्ति, इह तु न किञ्चिद् भ्रान्तिकारणं विद्यते, यतः विशेषणो हेतुरसति भ्रान्तिकारणे इत्यत्राभिप्रेतः, तत् कथं व्यभिचारिता हेतोः? इत्याह
___ व्यञ्जकध्वन्यधीनत्वात् तद्देशे हि स गृह्यते।
न च ध्वनीनां सामर्थ्य व्याप्तं व्योम निरन्तरम्॥ २२१०॥ १. अर्थसंस्कारस्य-गा।
२. ०शब्दस्याग्रहणम्-गा। ३. पा०, गा० पुस्तकयोनास्ति।