________________
श्रुतिपरीक्षा
५२३ तेनाविच्छिन्नरूपेण' नासौ सर्वत्र गम्यते। ध्वनीनां भिन्नदेशत्वाच्छ्रतिस्तत्रानुरुध्यते ॥२२११॥ अपूरितान्तरालत्वाद् विच्छेदश्चावसीयते। तेषां चाल्पकदेशत्वाच्छब्देऽप्यविभुतामतिः ॥२२१२॥ गतिमद्वेगवत्त्वाभ्यां ते चायान्ति यतो यतः।
श्रोता ततस्तत: शब्दमायान्तमिव मन्यते॥२२१३॥ अत्रापि व्यञ्जकध्वनिभेदो भ्रान्तिनिमित्तमस्तीति समानम् । व्यञ्जकध्वन्यधीनत्वादिति [G.613] शब्दग्रहणस्येति शेषः । तद्देश इति ध्वनिदेशः । स इति शब्दः । यथा च व्यञ्जको ध्वनिः शब्दस्य विच्छिन्नादिविभ्रमकारणं भवति, तथा योजयन्नाह-न चेत्यादि। असविति शब्दः । श्रुतिः, शब्दस्येति शेषः । तति आकाशदेशे। अपूरितान्तरालत्वम्, ध्वनिभिरित्यपेक्षणीयम्। तेषां चेति ध्वनीनाम्। ते चायान्तीति ध्वनयः ।। २२१०-२२१३॥
ननु चादित्यस्याप्येकस्य सतो देशविच्छेदेन ग्रहणमसिद्धम्। तथा हि-चक्षुषा प्रतिपात्रं पृथक्पृथग्भिन्नान्येव सूर्यादिप्रतिबिम्बानि परिच्छिद्यन्ते, न पुनरादित्यः; भवतस्तु प्रतिबिम्बमर्थान्तरमनिच्छतोऽनेकप्रतिबिम्बग्रहणे न किञ्चित् कारणमुत्पश्यामः?- इत्येवं मन्यमानस्य परस्य प्रत्यवस्थानमाशङ्कमान आह
आह-केन निमित्तेन प्रतिपात्रं पृथक् पृथक्।
भिन्नानि प्रतिबिम्बानि गृह्यन्ते युगपत्तया?॥२२१४॥* आहेति परः। युगपत्तयेति यौगपद्येन ॥ २२१४॥ अत्रोंत्तरमाह.. अत्र ब्रूमो यदा तावजलैःसौरेण तेजसा। ... स्फुरता चाक्षुष तेजः प्रतिस्रोत: प्रवर्तितम्॥ २२१५॥
स्वदेशमेव : गृह्णाति सवितारमनेकधा।
भिन्नमूर्तिर्यथापात्रं तदाऽस्यानेकता कुतः ॥२२१६ ॥ जलदेशस्थेन भानवीयेन तेजसा प्रस्यन्दनधर्मणा चाक्षुषं तेजः प्रतिस्रोतः प्रवर्तितम्= प्रत्यग्रीतं सत् सवितारम् आदित्यं स्वदेशस्थमेव गृह्णाति । यथापात्रम् यावत्पात्रम्। अतो भिन्नमूर्तिः प्रतिभातीति तदाऽस्यानेकता कुतः? नैव; भिन्नत्वाच्चक्षुर्वृत्तेरिति भावः ।। २२१५२२१६ ॥ चक्षुर्वृत्तिवशादेवाभिन्नोऽपि इव गृह्यत इति दर्शयन्नाह
ईषत्सम्मीलितेऽङ्गल्या यथा चक्षुषि दृश्यते ।
पृथगेकोऽपि भिन्नत्वाच्चक्षुर्वृत्तेस्तथैव नः॥२२१७॥ १. तेन विच्छिन्न-पा०, गा०।
२. ०वरुध्यते-गा०। ३-३. आहैकेन- इति न्यायरत्नाकरसम्मतः पाठः।। *इत आरभ्य २२२४कारिकापर्यन्तं प्रायः सर्वा अपि कारिका आचार्येण शोकवार्तिकस्थशब्दनित्यताधिकरणत उद्धता:-इति ध्येयम्।
४. गृह्यते-पा०, गा०।