________________
५२४
तत्त्वसंग्रहे ईषत्=मनाक्। अङ्गल्या चक्षुषि निमीलिते अवष्टब्धे सति यथैकोऽपि पदार्थः पृथक् नाना दृश्यते। कुतः? चक्षुर्वृत्तेर्भिन्नत्वात् । तथैव नः अस्माकमेकोऽपि शब्दो भिन्नो गृहीष्यत इत्यदोषः ॥ २२१७॥
अन्ये तु चोदयन्त्यत्र प्रतिबिम्बोदयैषिणः। स एव चेत् प्रतीयेत कस्मानोपरि दृश्यते॥२२१८॥ कूपादिषु कुतोऽधस्तात् प्रतिबिम्बाद् विनेक्षणम्।
प्राङ्मुखो दर्पणं पश्यन् स्याच्च प्रत्यङ्मुखः कथम्?॥२२१९॥ [G.614] 'जलादिषु यथैकोऽपि नानात्मा सवितेक्ष्यते'- इत्यस्य हेतुव्यभिचारविषयत्वेनोक्तस्यासिद्धिं मन्यमानाः प्रतिबिम्बमर्थान्तरमिच्छन्तश्चोदयन्ति । यदि स एवादित्यो दृश्यते न प्रतिबिम्बम्, तत्किमित्युपरिष्टादस्य न दर्शनं भवति? एवं हि तत्तस्य दर्शनं भवेत्, यदि देशावस्थितस्वरूपं गृह्णीयात्, नान्यथा। अन्यथा ह्यतिप्रसङ्गः स्यात्। किञ्च-कूपादिषु च दूराधःसन्निविष्टस्यार्कादेः कथं ग्रहणं भवेत् ? यदि तत्र प्रतिबिम्बं नोत्पन्नं स्यात्। न हि तत्र तथाऽर्कादिर्व्यवस्थितः । अपि च प्राङ्मुखो दर्पणमवलोकयन् कथमिव प्रत्यङ्मुखो भवति, न हि तस्य तदा पृष्ठाभिमुखं मुखमुपजातं दृश्यते? ॥ २२१८-२२१९ ॥ अप्सूर्येत्यादिना प्रतिविधत्ते- .
अप्सूर्यदर्शिनां नित्यं द्वेधा चक्षुः प्रवर्त्तते। एकमूर्ध्वमधस्ताच्च तत्रोझ्शुप्रकाशितम्॥ २२२० ॥ अधिष्ठानानृजुस्थत्वान्नात्मा सूर्यं प्रपद्यते । पारम्पर्पितं सन्तमवाग्वृत्त्यावबुध्यते॥२२२१॥ ऊर्ध्ववृत्तिं तदेकत्वादवागिव च मन्यते।
अधस्तादेव तेनार्कः सान्तरालः प्रतीयते॥२२२२॥ एवं मन्यते-यदि बहिर्निर्गतमिन्द्रियमादित्य बोधयेत्, तत एतत् स्यात्-उपरिस्थितिमेव पश्येन्नाधस्तादिति, यावता धर्माधर्मवशीकृते शरीरे एव तदिन्द्रियं ग्राहकमिष्यते, नोपरिस्थम्। यथोक्तम्
"तत्रैव बोधयेदर्थं बहिर्यातं यदीन्द्रियम्। तत एतद् भवेदेवं शरीरे तत्त्वबोधकम् ।।" इति।
(श्री० वा०, श० नि० १८५, १८६) तथा ह्ययं क्रमः- ये हि जलपात्रे जलं सूर्यं च पश्यन्ति तेषामप्सूर्यदर्शिनामेकमेव चक्षुरूर्ध्वमधश्च द्विधा भागशः प्रवर्त्तते । तत्रो_भागप्रकाशितमादित्यमात्मा पुरुषो न गृह्णाति, कुतः? अधिष्ठानानृजुस्थत्वात् चक्षुरिन्द्रियाधिष्ठानस्यार्जवेन तदाऽनवस्थितत्वात् । पारम्पर्येण तु सौरेण तेजसा [G.615] वृत्तेरर्पितमादित्यमर्वाग्वृत्त्या कारणभूतया बुध्यते। तथा हि किल सौरं तेजस्विन इत्यादित्यमूर्ध्ववृत्तिम् उपरिस्थं च तमादित्यमवागिव-अध:स्थितमिव मन्यते । क:? आत्मा। न पुनरधस्थादन्य एवादित्यः, कुतः? तदेकत्वात् तस्यदित्यस्याभिन्नत्वात् । १. तस्य-पाल, गा०।
२. तच्च बोधकम्-गा।