________________
५२५
श्रुतिपरीक्षा चक्षुष इत्यपरे । तस्मादनन्तरोदितेनैव चक्षुषो वृत्तिवशेन सान्तरालोऽधस्तात् कूपादिषु सूर्यो दृश्यते; जलादिपात्रभेदाच्च । अन्यथा कथमभिन्नस्य भेदेन ग्रहणं स्यात् ॥ २२२०-२२२२ ॥ यदुक्तम्-"प्राङ्मुखो दर्पणं पश्यन्" इत्यादि। तत्राह
एवं प्राङ्नतया वृत्त्या प्रत्यग्वृत्तिसमर्पितम्।
बुद्ध्यमानो मुखं भ्रान्त्या प्रत्यगित्यवगच्छति॥२२२३॥... प्रथमं किल चक्षूरश्मयो मुखमादाय निर्गच्छन्ति यावदादर्शादिदिशम्, सा प्राड्नता वृत्तिरुच्यते । ते च तत्रादर्शादौ प्रतिहता निवर्तमानाः स्वमुखमेव यथावस्थितमागच्छन्ति, सा च प्रत्यग्वृत्तिः। तत्र प्राङ्नता वृत्तिर्मुखं प्रत्यग्वृत्तेरर्पयति, प्रत्यावृत्तिञ्चात्मनः, तत आत्मा प्रत्यग्वृत्तिसमर्पितमवगच्छन् मुखं भ्रान्त्या प्रत्यङ्मुखं यास्यामीति मन्यते। चक्षुर्वृत्तेर्वैचित्र्यमेव भ्रान्तेर्बीजमिति भावः ॥ २२२३ ॥ अभ्युपगम्य प्रतिबिम्बोदयम्, परिहारमाह
अनेकदेशवृत्तौ वा सत्यषि प्रतिबिम्बके।
समानबुद्धिगम्यत्वान्नानात्वं नैव विद्यते॥ २२२४॥ सत्यपि प्रतिबिम्बेऽर्थान्तरभूते नैव तेषां प्रतिबिम्बानां नानात्वमस्ति । कुतः? समानबुद्धिगम्यत्वात् एकबुद्धिपरिच्छेद्यत्वात्। तथा शब्दस्याप्येकबुद्धिगम्यत्वादेकत्वं सिद्धम् ॥ २२२४॥
ननु कुतो देशभेदेन वेद्यमानस्यापि नानत्वं भविष्यति? ननु यद्देशभेदेन वेद्यमानत्वाद्भिनन्त्वं सिद्धं तत् कथमेकबुद्ध्या बाध्यते? इत्याह
देशेभेदेन भिन्नत्वमित्येतच्चानुमानिकम्।
प्रत्यक्षस्तु स एवेति प्रत्ययस्तेन बाधकः॥२२२५॥ बाधक इति। प्रत्यक्षस्य सर्वप्रमाणज्येष्ठत्वादिति भावः ॥ २२२५ ॥ देशकालेभेदेन वेद्यमानत्वस्य व्यभिचारित्वादप्रामाण्यमेवेति प्रतिपादयन्नाह- . ___ • पर्यायेण यथा चैको भिन्नदेशान् व्रजन्नपि।
. देवदत्तो न भिद्येत तथा शब्दो न भिद्यते॥२२२६॥ [G.616) तथा शब्दो न भिद्यत इति । देशतः, कालतश्चेत्यपेक्षणीयम् ॥ २२२६ !।
____ एवं देशव्यभिचारमुखेनोभयोरपि व्यभिचार उक्तः, इदानीं कालभेदव्यभिचारद्वारेण चोभयोरपि देशकालभेदेनोपलम्भयोर्व्यभिचारमाह
. ज्ञातैकत्वो यथा चैको दृश्यमानः पुनः पुनः।
न भिन्नः कालभेदेन तथा शब्दो न देशतः ॥ २२२७॥ ज्ञातमेकत्वं प्रत्यभिज्ञानाद् यस्य स तथा। न देशत इत्युपलक्षणम्, तथा कालतोऽपि न भिन्नः । अविरोधादेकव्यभिचारमुखेनान्यत्रापि व्यभिचारोद्भावनम् ॥ २२२७॥
पर्यायादित्यादिना दृष्टान्तस्य वैषम्यमाशङ्कते-- १-१. कथमभेदेन- पा०, गा०।
२. पास्यामीति- पा०, गा० । ३-३. भित्रकालभेदेन-पा०, गा.'