________________
५२६
तत्त्वसंग्रहे . पर्यायादविरोधश्चेद् व्यापित्वादपि दृश्यताम्।
दृष्टसिद्धयै हि यो धर्मः सर्वथा सोऽभ्युपेयते॥२२२८॥ • तथा हि-देवदत्तस्य यद्देशकालभेदेनोपलम्भेऽपि न भेदः, तत्र पर्यायोऽस्त्यविरोधकारणम्, शब्दे तु न किञ्चिदपीत्यतो वैषम्यं दृष्टान्तदाान्तिकयोः । अत्राप्यविरोधकारणमाहव्यापित्वादपि दृश्यतामिति। अविरोध इति सम्बन्धः। ध्वनीनां चापूरितान्तरालत्वादित्येतदपिशब्देन पूर्वोक्तं च निर्दिशति। कस्माद् व्यापित्वमङ्गीक्रियते? इत्याह- दृष्टसिद्ध्यै हति। भिन्नेषु दिग्देशेष्वभिन्नस्य शब्दस्य ग्रहणसिद्ध्यर्थं यो धर्मो युज्यते स एवान्यथानुपपत्त्याङ्गीक्रियते । अत्र च शब्दस्य नित्यव्यापित्वमन्तरेण सर्वस्मिन् काले देशे च न ग्रहणं सिध्यतीत्यतो नित्यविभुत्वे शब्दस्यान्यथानुपपत्त्या सिद्धे ॥ २२२८॥
स्वभावभेदेन वेद्यमानत्वस्यापि व्यभिचारितां प्रतिपादयन्नाह___ यथा महत्यां खातायां मृदि व्योनि महत्त्वधीः।
__ अल्पायां वाऽल्पधीरेवमत्यन्ताकृतके मतिः॥ २२२९॥ . . [G.617] अत्रायमभिप्रायः-यदि शब्दगतास्तीव्रमन्दादयो भेदा हैतुत्वेनोपांदीयन्ते, तदा न सिद्धो हेतुः; यो हि नित्यं शब्दमिच्छति स कथमपरोपाधिकाँस्तस्य स्वभावभेदान् ब्रूयात् ! अथ तीव्रमन्दाद्याकारे तद्विषया बुद्धिहेतुत्वेनोच्यते, सा-हि न स्वभावे भेदमन्तरेण सम्भवतीति? तदाऽनैकान्तिकता हेतोः । यथा हि महत्यां मृदि पृथिव्यां खातायां सत्यां व्योनि-आकाशे तदाश्रयं महत्त्वादिज्ञानमुत्पद्यते स्वतो महत्त्वादेरभावेऽपि, तथा शब्देऽप्यत्यन्ताकृत्रिमेऽप्ययं व्यञ्जकध्वनिभेदाद् बुद्धिभेदो भविष्यति तथाविधस्वभावभेदमन्तरेणापि। तदेवाह
तेनात्रैवं परोपाधिशब्दवृत्तौ मतिभ्रमः।
न च स्थूलत्वसूक्ष्मत्वे लक्ष्येते शब्दवर्तिनी॥ २२३०॥ अथ परोपाधिरयम्, न तु स्वत एवेति कथमगवतमिति चैत्? आह-न चेत्यादि। अनेनैतदाह-बुद्धिगते एव तीव्रमन्दत्वे शब्दे समारोप्य भ्रांम्यति, न तु पुनः शब्दस्य स्वतः स्थूलादिसम्भवः; तस्य प्रत्यभिज्ञयैकत्वस्य सिद्धत्वात् ॥ २२३० ॥
__ अथापि स्याद्-यदि विषयस्य तथा स्वभावभेदो न भवेद्, बुद्धेरपि कुतो भवेत् ? इत्याह
बुद्धितीव्रत्वमन्दत्वे महत्त्वाल्पत्वकल्पना। सा च पट्वी भवत्येव महातेजःप्रकाशिते॥२२३१॥ मन्दप्रकाशिते मन्दा घटादावपि सर्वदा।
एवं दीर्घादयः सर्वे ध्वनिधर्मा इति स्थितम्॥२२३२॥ यथैव हि घटादावसत्यपि स्वभावभेदे प्रकाशभेदाद् बुद्धेः पटुमन्दतादिभेदो भवति, तथा शब्देऽपि दीर्घादिभेदो व्यञ्जकध्वनिभेदाद् भविष्यति, असत्यपि स्वतः स्वभावभेद इत्यदोषः ॥ २२२९-२२३२॥ १. ०दनिरोध०-०।
२. सर्वेषां-पा०, गा०। ३. ०कृत्रिमेऽयं-पा०, गा।