________________
श्रुतिपरीक्षा
५२७ पुनरपि शब्दानित्यत्वप्रतिज्ञाया बाधां शब्दस्य वाचकंसामर्थ्यान्यथानुपपत्त्या प्रतिपादयनाह
न चादृष्टार्थसम्बन्धः शब्दो भवति वाचकः।
तथा चेत् स्यादपूर्वोऽपि सर्वः स्वार्थं प्रबोधयेत्॥२२३३॥ अर्थापत्तिपूर्विकेयमर्थापत्तिः । तथा हि-शब्दस्य वाचकसामर्थ्य शाब्दज्ञानान्यथानुपपत्त्या सिद्धम्, तदपि सामर्थ्य शब्दनित्यत्वमन्तरेणानुपपन्नमित्यर्थापत्तिपूर्विकेयमर्थापत्तिः ! तामेव विस्तरेण प्रतिपादयति-न हि तावदगृहीतसम्बन्धः शब्दः सत्तामात्रेण वाचको भवति। तथा चेत् स्यादिति। यद्यदृष्टार्थसम्बन्धोऽपि वाचको भवेत्, तदा अपूर्वोऽपि प्रथममश्रुतोऽपि नालिकेरद्वीपनिवासिनां गवादिशब्दः स्वार्थं प्रकाशयेत् ॥ २२३३ ॥ [G.618) ननु चात्र सर्वेषामविवादात् सिद्धसाध्यता, न हि कश्चिदज्ञातसम्बन्धं शब्द वाचकमिच्छति। नित्यस्तु स कथमनेन ज्ञातसम्बन्धेन प्रतिपादितो भवति? इत्याह
सम्बन्धदर्शनं चास्य नानित्यस्योपपद्यते।
सम्बन्धज्ञानसिद्धिश्चेद् ध्रुवं कालान्तरस्थितिः॥२२३४॥ शब्दमर्थं च पुरोऽवस्थाप्य तयोः सम्बन्धः क्रियते, कृतश्चोत्तरकालं ज्ञायेत उच्चरितप्रध्वंसित्वात् तु शब्दस्यैतदयुक्तम्। तदाह-नानित्यस्योपपद्यत इति । अथ तावत्काल मवतिष्ठेत? हन्त तर्हि कालान्तरमप्यवस्थानमनिवार्यभेव; अविरोधात्। यथोक्तम्-"तावत्कार स्थिरं चैनं क: पश्चान्नाशयिष्यति" (तस्व० २१३८) इति ॥ २२३४॥ अथापि स्यात्-सम्बन्धकालं यावदवतिष्ठेत, पश्चात्स्वयमेव नश्यति? इत्याह
अन्यस्मिन् ज्ञानसम्बन्धे न चान्यो बोधको भवेत्।
गोशब्द ज्ञानसम्बन्धेरे नाश्वशब्दो हि वाचकः॥२२३५॥ अन्यस्मिन् सङ्केतकालभाविनि। शेषं सुबोधम् ॥ २२३५ ।। अथेति पराभिप्रायमाशङ्कते- .
अथान्योऽपि स्वभावेन कश्चिदेवावबोधकः।
तत्रानिबन्धने न स्यात् कोऽसाविति विनिश्चयः॥ २२३६॥ प्रयोगकालभावी प्रकृत्यैव सङ्केतकालभाविशब्दवद्वाचक: स्यादिति चेत् ? तदसम्यक निबन्धनमन्तरेणायमसौ शब्दोऽस्यार्थस्य वाचक इति निश्चयाभावात्।। २२३६ ॥
ननु च कथमुच्यते-निश्चयो नास्तीति, यावता यतोऽर्थप्रत्ययो भवति स एव स्वभावतोऽर्थस्य बोधक इति स्पष्टमेव निश्चीयते? इत्याह
यतः प्रत्यय इत्येव व्यवहारे प्रकल्पिते।
श्रोतृणां स्यादपीत्थं तु वक्तृणां नावकल्प्यते ॥ २२३७॥ सत्यं श्रोतृणां सम्भववेदयम्-निश्चयोऽयमर्थस्य प्रत्यायक इति; तेषां ततोऽर्थप्रत् १. सम्बन्धदर्शन:- जै०।
२. ज्ञातसम्बन्धे-पा०, गा०। ३. ०न्तरेणासौ-पा०, गा०।
४. नावकल्यते-पा०, गा०।