________________
५२८
तत्त्वसंग्रहे योत्पत्तेः प्रयोक्तृणां त्वयं दुर्लभः, नहि ते ततः शब्दादर्थं प्रतिपद्यन्ते, परप्रत्यायनार्थमेव शब्द ते प्रयुञ्जते । तत्कुतो वक्तृणामवकल्प्यते' निश्चयः ॥ २२३७ ॥ [G.619] एतदेव दर्शयति
अज्ञात्वा कमसौ शब्दमादावेव विवक्षतु।
जानाति चेदवश्यं स पूर्वमेवावधारितः ॥२२३८॥ ... तदेवमज्ञानपक्षेऽयं दोषः, ज्ञानपक्षेऽपि नियतमसौ प्राक् तेन ज्ञात इति स्थिरत्वमस्य बलादापततीति दर्शयन्नाह-जानाति चेदिति॥ २२३८॥
___ ननु यथा दीपादितेजोऽभिनवमपि प्रकाशयत्यर्थम्, तथा शब्दोऽपि प्रतिपादयिष्यति? इत्याह
तेजः प्रत्यक्षशेषत्वान्नवत्वेऽपि प्रकाशकम्। - प्रत्यक्षशेषत्वम्-अङ्गभावः । प्रत्यक्षशेषत्वं तद्विषयसंस्कारादिन्द्रियसंस्काराद्वा प्रत्यक्षे ज्ञानेऽङ्गतामुपगच्छदभिनवमपि प्रकाशकं भवति। शब्दस्य साक्षादतीन्द्रियार्थप्रतिपादकत्वान्न प्रत्यक्षाङ्गम्, अतो वैषम्यम् । अथा वा-यत्प्रत्यक्षाङ्गं तत्सम्बन्धपरिज्ञाननिरपेक्षमपि प्रकाशयति, यथा चक्षुस्तेजश्च प्रत्यक्षाङ्गम्, तस्मादभिनवमपि प्रकाशयति । शब्दस्तु परोक्षविषयत्वान्न प्रत्यक्षाङ्गमिति वैषम्यम् । ननु चाभिनवमपि शब्दान्तरं पूर्वसादृश्यानुसारेण वाचकं भविष्यति? इत्याह
सदृशत्वाप्रतीतेश्च तद्वारेणाप्यवाचकः ॥२२३९॥ न ह्यप्रतीते सादृश्ये तद्द्वारेण वाचकत्वं युक्तम्; अतिप्रसङ्गात् ॥ २२३९ ॥ किञ्च-आस्तां तावत् सादृश्यप्रतीतिः, सादृश्यमेव न सम्भवतीति प्रतिपादयन्नाह
कस्य चैकस्य सादृश्यात् कल्प्यतां वाचकोऽपरः। अदृष्टसङ्गतित्वेन सर्वेषां ' तुल्यता तदा ॥२२४०॥ अर्थवान् पूर्वदृष्टश्चेत् तस्यैतावान् क्षणः कुतः!
द्विस्त्रिर्वाऽनुपलब्धो हि नार्थवान् सम्प्रतीयते॥२२४१॥ एकस्मिन् हि वाचके सिद्धे तत्सादृश्यादितरस्तथैवेति कल्प्येत, तच्च न सम्भवति; सर्वेषामेव शब्दानामर्थसम्बन्धित्वेन प्रतीतत्वात् । अथापि स्याद्-यः प्राक् सङ्केतकाले दृष्टः सोऽर्थवानेव, सादृश्यमितरेषां भविष्यति? इत्याह- तस्यैतावान् क्षणः कुत इति। तस्य= पूर्वदृष्टस्य शब्दस्य एतावत: क्षणान् कुतोऽवस्थानम्; उच्चरितप्रध्वंसित्वात्तस्य । यदि नामोच्चरितप्रध्वंसी, तथाऽप्यर्थवान् किं न भवतीति चेत् ? आह-द्विस्त्रित्यादि । भूयोदर्शनभावित्वं हि शब्दार्थसम्बन्धज्ञानम्; सकृदुपलम्भात् ॥ २२४०-२२४१ ॥ [G.620] अथ सजातीयान्यग्रहणे सति स एव सार्थको भवतीत्युच्यते, तदयुक्तम् ? इत्याह
अप्रतीतान्यशब्दानां तत्कालेऽसावनर्थकः।
स एवान्यश्रुतीनां स्यादर्थवानिति विस्मयः ।। २२४२॥ १. ०मवकल्पते-पा०, गा० ।
२. प्रत्यक्षे अङ्गभावः-गा०। , ३. पा०, गा० पुस्तकयोनास्ति। ४. पूर्वेषां-पा०, गाल।
५. भयोदर्शन भावि-पा०, गा० ६. पा०, गा० पुस्तकयो स्ति।