________________
श्रुतिपरीक्षा
५२९
येषां हि प्रतिपत्तृणां शब्दान्तरमप्रतीतम्, तेषां श्रवणकाले नासावर्थस्य प्रत्यायकः; भेदाधिष्ठानस्य सादृश्यस्य तदानीमभावात् । पुनः स एव तेषामेव प्रतिपत्तृणां प्रतीतशब्दान्तराणामर्थप्रत्यायक इत्यलौकिकम्। कथं हि नामैकस्य क्रियाक्रिये परस्परविरुद्ध स्याताम् ! अन्यश्रुतीनामिति । अन्या सजातीयशब्दविषया श्रुतिर्येषां प्रतिपत्तॄणां ते तथा ॥ २२४२ ।।
एवं तावद् वाचकत्वान्यथानुपपत्त्या शब्दनित्यत्वं प्रतिपाद्य, इदानी सम्बन्धकरणान्यथानुपपत्त्या प्रतिपादयन्नाह
शब्दं तावदनुच्चार्य सम्बन्धकरणं न च।
न चोच्चारितनष्टस्य सम्बन्धेन प्रयोजनम्॥ २२४३॥ पूर्वमुच्चारणम्, ततः सम्बन्धकरणम्, ततो व्यवहारः-इत्ययं क्रमेण व्यवहार उच्चारितप्रध्वंसिनोऽक्रमस्य कथं स्यात् । न केवलं नष्टस्य सम्बन्धोऽशक्यक्रियः, नापि तेन प्रयोजनम्; व्यवहारकालाननुयायित्वात् । व्यवहारार्थत्वाच्च सङ्केतस्य ॥ २२४३॥
तेनासम्बन्धनष्टत्वात् पूर्वस्तावदनर्थकः।
उत्तरोऽकृतसम्बन्धो विज्ञायेतार्थवान् कथम्॥२२४४॥ तेनेत्यादिना निगमयति। अविद्यमानः सम्बन्धो यस्यासावसम्बन्धः, २असम्बन्धवत्त्वान्नष्टत्वाच्च पूर्वस्तावत् सङ्केतकालभावी शब्दोऽनर्थकः । व्यवहारकालभावी तर्हि सार्थको भविष्यति? इत्याह-उत्तर इत्यादि ॥ २२४३-२२४४ ॥ यदि तीक्रमस्य क्रमेणोच्चारणादयोऽनुपपन्नाः, युगपत्तर्हि भवन्तु? इत्याह
शब्दोच्चारणसम्बन्धकरणव्यावहारिकीः • क्रियाः क्रमस्वभावत्वात् कः कुर्याद्युगपत् क्वचित्॥२२४५॥
शब्दोच्चारणम्, सम्बन्धकरणम्, लोकव्यवहारश्च इत्येतास्तिस्रः क्रियाः स्वभावत एव क्रमवत्यः, ता युगपत् कर्तुमशक्याः। असति च यौगपद्ये सम्बन्धकरणानुपपत्तिः। क्रमप्रतीक्षायां कथं कालान्तरस्थायी शब्दोऽभ्युपगतः स्यात् ।। २२४५ ॥
. . . देशकालादिभिन्नानां पुंसां शब्दान्तराश्रुतेः।
पूर्वं कृत्रिमसम्बन्धोऽप्येकः शब्दो न सिध्यति॥२२४६ ॥ देशकालादिभिन्नानामिति निगमनम्। [G.621] आदिशब्देन बालकुमाराद्यवस्थापरिग्रहः । पूर्वमिति । शब्दान्तर श्रुतेरिति सम्बन्धनीयम् । तेनायमर्थो भवति-पूर्वं सङ्केतकाले शब्दान्तरस्यार्थवतोऽश्रुतेः कारणदेशादिभेदभिन्नानां व्यवहर्तृणां भवन्मतेन नैकोऽपि शब्द कृत्रिमसम्बन्धः सिद्धयेत् । तस्मादकृत्रिमसम्बन्धोऽभ्युपगन्तव्य इति ॥ २२४६ ॥
साम्प्रतं सम्बन्धकथनान्यथानुपपत्या नित्य एव शब्द इति दर्शयन् सम्बन्धकरणे यो दोषः, स एव तत्कथनेऽपीत्यादिशति
सम्बन्धकथनेऽप्यस्य स्यादेषैव प्रतिक्रिया।
नष्टासद्वर्त्तमानेषु नाख्यानस्य हि सम्भवः ॥ २२४७॥ १. तेषां हि-पा०, गा०। २. तत्त्वत्र-पा०, गा० । ३. पा०, गा० पुस्तकयो स्ति।