SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ तत्त्वसंग्रहे - अतीतः, कथम् ? इत्यपेक्षायां प्राह' - नष्टेत्यादि । नष्ट: = असन्=अनागतः, तयोरसत्त्वादेव न सम्बन्धाख्यानसम्भवः । वर्त्तमानोऽप्युच्चार्यमाणस्तस्य समनन्तरध्वंसित्वेन कुतस्तावान् कालः ॥ २२४६ - २२४७ ॥ एतदेव दर्शयति ५३० अर्थवान् कतरः शब्दः श्रोतुर्वक्त्रा च कथ्यताम् । यदा पूर्वश्रुतः शब्दो नासौ शक्नोति भाषितुम् ॥ २२४८ ॥ न तावदर्थवन्तं स ब्रवीति सदृशं वदेत् । नार्थवत्सदृशः शब्दः श्रोतुस्तत्रोपपद्यते ॥ २२४९॥ अर्थवद्ग्रहणाभावान्न चासावर्थवान् स्वयम्। वक्तुः श्रोतृत्ववेलायामेतदेव प्रसज्यते ।। २२५० ॥ न हि वक्ता पूर्वश्रुतं शब्दं श्रोतुः कथयितुं शक्तः; तस्य पूर्वनिरुद्धत्वात् । यमपि प्रतिपादयति न तमर्थवन्तं शक्नुयात् प्रतिपादयितुम्; तस्य पूर्वमकृतसम्बन्धत्वात् । एतावत् सम्भाव्यते-सदृशं ब्रूयादिति ? तदपि न सम्भवतीत्याह - नार्थवत्सदृश इत्यादि । न हात्र केनचित् सादृश्यमिष्टम्, किं तर्हि ? अर्थवता, तच्चानुपपन्नम् । यदि हि श्रोत्रा कश्चिच्छब्दोऽर्थवानुपलब्धः स्यात्, तदाऽनेन सादृश्यमुपपद्येत, यावता पूर्वसङ्केतकालेऽर्थवतो ग्रहणाभावान्न युक्तमेतत्। कथ्यमानो यः सोऽर्थवांस्तर्हि भविष्यति ? इत्याह - न चासावित्यादि । न चासावुच्चार्यमाणोऽर्थवान्; तस्य पूर्वमकृतसम्बन्धत्वादित्युक्तम् । वक्तुरित्यादिना यदा वक्तापि पर्यायेण श्रोता भवति, तदा तस्याप्येतदेव सर्वं दोषजातम् -' न तावदर्थवन्तं स ब्रवीति' इत्यादिकमापततीति दर्शयति । तदनेन सर्वेषामेव वक्तृणां न कश्चिदर्थवान् शब्दः सम्भवतीत्युक्तं भवति ॥ २२४८ - २२५० ॥ [G.622] तस्मादित्युपसंहरति तस्माच्छब्दार्थसम्बन्धो नित्य एवाभ्युपेयताम् । न तु सामयिको युक्तः सर्वथा तदसम्भवात् ॥ २२५१ ।। स्वत इत्यादिना परस्य च पूर्वपक्षमाशङ्कते - ॥ २२५२ ॥ स्वतो नैवास्ति शक्तत्वं वाच्यवाचकयोर्मिथः । प्रतीतिः समयात् पुंसां स्याच्चेदक्षिनिकोचवत् ॥ २२५२ ॥ वाच्यवाचकयोः परस्परं नैव स्वाभाविकी यथाक्रमं वाच्यवाचकशक्तिः । कथं तर्हि प्रतीतिः शब्दादुदेति ? इत्याह- प्रतीतिः समयादित्यादि । यस्य तत्र सङ्केतापेक्षः कारणभावो न स तस्य स्वाभाविकः, यथा - अक्षिनिकोचस्य प्रतिपत्तौ । सङ्केतापेक्षश्च प्रतिपत्तौ कारणभावः शब्दस्येति व्यापकविरुद्धोपलब्धिः । अनेन चानित्यत्वप्रतिज्ञाबाधां विस्तरेणोक्तां विघटयति - समय इत्यादिना प्रतिविधत्ते समयः प्रतिमर्त्यं वा प्रत्युच्चारणमेव वा। २. अर्थवान्क.... पा० । १ - १. पाठोऽयं पा०, गा० पुस्तकयोर्नास्ति । ३. पा०, गा० पुस्तकयोर्नास्ति ।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy