________________
श्रुतिपरीक्षा
५३१ क्रियते जगदादौ वा सकृदेकेन केनचित्॥२२५३॥ इयमस्य संज्ञेति समयः, सा प्रतिपत्त्यर्थं प्रतिपुरुषं वा क्रियेत, प्रतिपुरुषमेव प्रत्युच्चारणम्, प्रतियोगं वा। अथ वा- जगदादौ जगतः सृष्टिकाले, केनचित् ईश्वरादिना दात्रा, सकृत्-एकयैव हेलया, क्रियेतेति त्रयो विकल्पाः ।। २२५३॥
प्रत्येकं वापि सम्बन्धो भिद्येतैकोऽथ वा भवेत्। ___ एकत्वे कृतको न स्याद् भिन्नश्चेद् भेदधीर्भवेत्॥२२५४॥
सम्बन्धोऽपि शब्दार्थयोः क्रियमाण: कदाचित् प्रतिसत्त्वं भिद्येत, यद्वैक एवेति 'द्वयी कल्पना । एकत्वपक्षे जातिवद्देशकालभेदानुयायित्वात् कृतको न स्यात् । नित्य एव स्यादिति यावत् । अथ प्रतिसत्त्वं भिन्नस्वभावः, तदा प्रतिसत्त्वं भेदबुद्धिः प्राप्नोति; ज्ञेयभेदनिबन्धनत्वाज्ज्ञानभेदस्य। न च गवादिशब्दानां शतकृत्वोऽपि प्रयोगे व्यवहर्तृणां भेदबुद्धिर्भवति; अभेदाध्यवसायेनैव व्यवहारात् ॥ २२५४ ।।
किञ्च-यदि प्रतिसत्त्वं भिन्नः सम्बन्धः, तदाऽवश्यं भेदधिया भाव्यम्, ततश्च व्यवहारोच्छेदः प्राप्नोतीति दर्शयन्नाह
वक्तृश्रोतृधियोर्भेदाद् व्यवहारश्च दुष्यति।
वक्तुरन्यो हि सम्बन्धो बुद्धौ श्रोतुस्तथाऽपरः ॥२२५५ ॥ [G.623] भेदादिति। विषयस्येत्यध्याहार्यम् । तेनायमर्थो भवति-वक्तृश्रोतृधियोर्योऽर्थो विषयः, तस्य भेदादेकार्थाध्यवसायेन व्यवहारो न स्यात् । कथम्? इत्याह-वक्तुरन्यो हीति ॥ २२५५॥ यदुक्तम्-"समयः प्रतिम] वा" (तत्त्व० २२५३) इति। अत्र दूषणमाह
श्रोतुः कर्तुं च सम्बन्धं वक्ता कं प्रतिपद्यताम् !
पूर्वं दृष्टो हि यस्तेन तं श्रोतुर्न करोत्यसौ॥ २२५६॥ तं श्रोतुर्न करोति तस्य नष्टत्वात्। न दृष्टप्रतिपादक इति तस्य पूर्वमदृष्टत्वात् ॥
यं करोति नवं सोऽपि न द्रष्टप्रतिपादकः।
घटादावपि तुल्यं चेन्न सामान्यप्रसिद्धितः ॥ २२५७॥ घटादावति। अतिप्रसङ्गोद्भावनया दूषणस्यानैकान्तिकत्वमाशङ्कते। घटादावपि तुल्य: प्रसङ्गः, तथा हि-यो घटोऽर्थक्रियासमर्थो दृष्टः, नासौ कर्तुं शक्यः; तस्य निष्पन्नविनष्टत्वात्। यश्चाधुना क्रियते नासावर्थक्रियासमर्थो दृष्टः; तस्यानिष्पन्नत्वात् ? उत्तरमाह-न सामान्यप्रसिद्धित इति । नेति पूर्वपक्षप्रतिक्षेपः । कुतः? सामान्यस्य प्रसाधितत्वात् । तद्द्वारेण सामर्थ्यसिद्धेरिति भावः ॥ २२५७॥ एतदेव स्पष्टयन्नाह
यद्यपि ज्ञातसामर्थ्या व्यक्तिः कर्तुं न शक्यते। क्रियते या न तस्याश्च शक्तिः कार्येऽवधारिता ॥ २२५८॥
तथाऽप्याकृतितः सिद्धा शक्तिरुच्चारणादिषु। १-१. द्वितीयकल्पना-पा०, गा०।
२.० यस्येत्यहार्यम-गा।