________________
५३२
तत्त्वसंग्रहे
तस्या न चादिमत्ताऽस्ति सम्बन्धस्त्वादिमाँस्तव ॥ २२५९॥ यद्यप्युदकाहरणादिषु दृष्टसामर्थ्या घटव्यक्ति: कर्तुं न [G.624] पार्यते, निष्पन्नविनष्टत्वात्; याऽप्यधुनातनी, न तस्या अर्थक्रियासामर्थ्यमवधारितम्; तथाप्याकृतिद्वारेणैवार्थक्रियासामर्थ्य सर्वस्यां व्यक्तौ सिध्यति । कथमित्याह- तस्या इत्यादि। तस्या इति आकृतेः । क्वचित्- न च तस्यादिमत्तेत पाठः । तस्यायमर्थः-न च तस्योदकाहरणादिसामर्थ्यस्यादिमत्तास्ति; आकृतेर्नित्यत्वात्। तस्याश्चाश्रयतोऽत्यन्तमभिन्नत्वात्। यथोक्तम्-"स्थितं नैव च जात्यादेः परत्वं व्यक्तितो हि न२" (ो० वा० प्र० सू० १४१) इति । सम्बन्धोऽपि ताकृतिद्वारेणानादिर्भवत्विति चेत्? तदेतदयुक्तमित्याह-सम्बन्धस्त्वित्यादि । २२५९॥
यदि तस्यापि सामान्यं नित्यमभ्युपगम्यते।
तथाप्यस्मन्मतं सिद्धं न त द्वयाकारसम्भवः ।।२२६०।। किञ्च-यदि भवता तस्यापि शब्दार्थसम्बन्धस्य नित्यं सामान्यमभ्युपगम्यते, तथापि नित्यं नाम वस्त्वस्तीत्यस्मन्मतं सिद्धम् । शब्दस्तु प्रकृत एव न सिध्यतीति चेत् ? आह-न तु व्याकारसम्भव इति। द्वावाकारौ-सम्बन्धः, तत्सामान्यं च। एकस्यैवाकारस्य सम्भवः, न तु सामान्यस्य; तस्यानेकव्यक्तिनिष्ठत्वात्, सम्बन्धस्य चैकत्वात् ॥ २२६० ॥ कथमेकत्वं सम्बन्धस्य? इत्याह
शक्तिरेव हि सम्बन्धो भेदश्चास्या न दृश्यते।
सा हि कार्यानुमेयत्वात् तद्भेदमनुवर्तते ॥२२६१॥ न हि शक्तिव्यतिरिक्तः सम्बन्धोऽस्ति। यदि नामैवम्, ततः किम् ? इत्याहभेदश्चेत्यादि। भद:-नैकत्वम्। किमिति न दृश्यत इत्यत्र कारणमाह-सा हीति। सा हि नित्यं कार्यानुमेया। यथोक्तम्-"शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः" (श्लो० वा०, चो० सू० २००) इति। ततोऽसौ कार्यभेदमनुवर्तत्ते अनुधावंति, आत्मगतभेदप्रत्यायने । कार्यभेददर्शनं विना न शक्यः शक्तिभेदो ज्ञातुमिति यावत् । न चात्र कार्यभेदोऽस्ति । तथा हि-कार्यं तस्याः प्रतीतिरेव, सा च शब्दालम्बना वा स्यात्, अर्थालम्बना वा। न तावदाद्याया भेदः; शब्दस्य नित्यं प्रत्यभिज्ञायमानत्वात्। नाप्यालम्बनायाः; न हि शतकृत्वोऽप्युच्चार्यमाणे गोशब्दादेरन्यादृशी प्रतीतिरुपजायते ॥ २२६१ ॥ उपचयमाह
अन्यथानुपपत्त्या च शक्तिसद्भावकल्पनम्।
न चैकयैव सिद्धेऽर्थे बह्वीनां कल्पनेष्यते ॥२२६२॥ अर्थप्रतीत्यनुपपत्त्या हि वाच्यवाचकशक्ति: कल्प्यते। एकयैव च शक्त्या विवक्षितार्थस्य सिद्धत्वादपार्थकमनेकशक्तिपरिकल्पनम् । न चान्यथानुपत्त्या शक्तिभेदोऽनुमातुं शक्यः; शक्तिमात्र एव तस्याः सामर्थ्यात् ॥ २२६२ ।। इतश्च सम्बन्धस्य करणमयुक्तमतो नित्य एव सम्बन्ध इति प्रतिपादयन्नाहसम्बन्धाख्यानकाले च गोशब्दादावुदीरिते। २. तत्-पा०, गा।
३. ०ऽप्युच्चार्यमाणो— पा०।
१. स्तत-पा०. गा०।