________________
श्रुतिपरीक्षा
५३३ केचित् सम्बन्धबुद्ध्याऽर्थं बुद्ध्यन्ते नापरे तथा॥ २२६३॥ [G.625) तथा हि-'एष गौः पदा न स्प्रष्टव्यः' इत्युक्ते केचित् पुरुषा वाच्यवाचकसम्बन्धमवधार्य सम्बन्धपुरःसरमेवार्थमवबुध्यन्ते । अन्ये त्वज्ञातसम्बन्धाः स्वरूपमेवावयन्ति, नार्थम् ॥ २२६३॥ .
तत्र सम्बन्धनास्तित्वे सर्वोऽर्थं नावधारयेत्।
अस्तित्वे सर्वबोधश्चेन्न कैश्चिदनुपग्रहात्॥२२६४॥ तत्र यदि वस्तुभूतः सम्बन्धो न स्यात् तदा सर्व एव पुरुषो व्युत्पन्नव्यवहारो नार्थमवधारयेत् । नोकस्य सदसत्त्वे परस्परविरुद्ध युक्ते। तस्मान्नित्यावस्थित एव सम्बन्ध इति।
ननु यदि नित्यावस्थितः सम्बन्धः, किमिति सर्वदा सर्वेषामर्थप्रतिपत्तिर्न भवेत् ? इत्येतच्चोद्यमाशय विस्तरेण परिहरनाह-अस्तित्वइत्यादि। नेति प्रसङ्गं निवर्तयति। कुतः? कैश्चित् तस्याग्रहणात् ॥ २२६४॥
___ यदि नाम न गृहीतः, तथापि किमिति स्वकार्यं न जनयेत्, न हि खलबिलाधन्तर्गतत्वादात्मकार्यं बीजादयो विजहति ? इत्याह- .
ज्ञापकत्वाद्धि सम्बन्ध: स्वात्मज्ञानमपेक्षते।
तेनासौ विद्यमानोऽपि नागृहीतः प्रकाशकः॥२२६५॥ अन्यो हि ज्ञापकधर्मः, अन्यश्चोत्पादकस्य; शब्दस्तु धूमवदर्थस्य ज्ञापकः, न तु बीजादिवदुत्पादक इत्यदोषः ॥ २२६५ ॥
ननु चैकस्य यथा' सदसत्त्वे परस्परविरुद्धत्वादयुक्ते, तथा ग्रहणाग्रहणे अपि। अथानयोरविरोधः, क इदानी प्रद्वेषः सदसत्त्वंयोः? इत्याह
विद्यमानस्य चार्थस्य दृष्टं न ग्रहणं क्वचित्। न त्वत्यन्तासतोऽस्तित्वं काँश्चित् प्रत्युपपद्यते॥ २२६६॥ विरुद्धौ सदसद्भावौ न स्यातामेकवस्तुनि। . तत्र तुल्यं विरोधित्वं ज्ञानाज्ञानत्वयोरपि ॥ २२६७॥ ज्ञानं हि. पुरुषाधारं तद्भेदान्न विरुध्यते।
पुरुषान्तरसंस्थं च न ज्ञानं तेन वार्यते॥२२६८॥ एकत्र हि धर्मिणि परस्परविरुद्धधर्माध्यासो विरुद्धः, न तु धर्म्यन्तरे। ग्रहणाग्रहणे च पुरुषभेदेन भिन्नधाधारत्वादविरुद्धे, न तु सदसत्त्वे; तयोरेकधाधारत्वेनेष्टत्वादिति समासार्थः ॥ २२६६-२२६८॥
ननु च ग्रहणाग्रहणपक्षेऽपि सामर्थ्यादेकाधिकरणे सदसत्त्वे परस्परविरुद्ध तत्रापि' (G.626] समापतत एव । तथा हि-पदार्थसदसत्त्वाभ्यां ग्रहणाग्रहणे व्याप्ते; तन्निबन्धनत्वात् १. पा०, गा० पुस्तकयो स्ति। ३.ज्ञाताज्ञातत्व०-पा०,गा० ।
४-४. नाज्ञानं-गा। ५. तथापि-पा०।
२. न च-पा०, गा०।