________________
५३४
तत्त्वसंग्रहे
तयोः, अन्यथा तुल्ययोग्यदेशयोः पुरुषयोरेक एव पश्येन्नापर इत्यत्र कारणं वक्तव्यम्? इत्याशङ्कयाह
अन्धानन्धसमीपस्थः शुक्लोऽन्धैर्नावगम्यते।
गम्यते चेतरैस्तस्य सदसत्त्वे न तान् प्रति॥ २२६९॥ यथा ह्यन्धेरतरयोः समीपस्थं रूपमविकलचक्षुष एवोपलभन्ते, नेतरे, न च तान प्रति तस्य शुक्लरूपस्य सदसत्त्वे स्तः; तद्वत् सम्बन्धेऽपीति ॥ २२६९ ॥ किमत्र कारणम् ? इत्यपेक्षानिवृत्त्यर्थमुपपत्तिमाह-- __ शक्त्यशक्त्योर्नराणां तु भेदात् तत्राविरोधिता।
न ह्यन्यो दर्शनस्यास्ति सम्बन्धाद्धेतुरत्र हि ॥ २२७०॥ एतदाचष्टे-न ह्यर्थसत्तैवोपलम्भकारणम्, किं तर्हि ? पुरुषगता च शक्तिः । तेन सत्यप्यर्थे कस्यचित् पुरुषस्य शक्त्याभावादग्रहणमविरुद्धमिति नाग्रहणमर्धासत्त्वेन व्याप्तम्। यद्येवम्, असत्यपि सम्बन्धे पुरुषाणां शक्त्यशक्तिभेदाच्छब्दादर्थस्य ग्रहणांग्रहणे भविष्यत इति सर्वं समानम्? इत्याह-न ह्यन्यइत्यादि । सम्बन्धग्रहणपुरस्सरत्वादर्थप्रत्ययस्येति भावः । अन्य इति हेतुः सम्बद्ध्यते। दर्शनस्येति। शब्दार्थप्रतीतेः । हेतुरित्येतदपेक्षा चेयं षष्ठी। सम्बन्धादित्यस्यान्यापेक्षा पञ्चमी। अत्रेति शब्दार्थव्यवहारे । अन्ये तु–'शक्त्यशक्त्योर्नराणां तु भेदात्तत्राविरोधिता' इत्यत्रैवोपपत्तिरूपेण व्यांवर्तयन्तो व्याचक्षते-सम्बन्धादिति। पुरुषशक्तेरित्यर्थः । अत्रेति शुक्ले ॥ २२७० ॥ दार्टान्तिकमुपसंहरन्नाह
एवमेवेन्द्रियैस्तुल्यं व्यवहारोपलम्भनम्।
येषां स्यान्नैव भोत्स्यन्ते ततोऽर्थं नेतरेऽन्धवत् ॥ २२७१॥ व्यवह्नियते अस्मादिति व्यवहार: शब्दार्थसम्बन्धः। तस्योपलम्भनम् परिज्ञानम्। तदिन्द्रियैस्तुल्यम्। तथा हि-येषामेवेन्द्रियमस्ति, तेऽर्थमुपलभन्ते; येषां तु नास्ति, ते सत्यप्यर्थे नोपलभन्ते। एवं येषां सम्बन्धपरिज्ञानमस्ति, ते शब्दादर्थमवबुध्यन्ते; येषां तु नास्ति, ते सत्यपि सम्बन्धे नोपलभन्त इति सर्वं समानं किल ॥ २२७१ ।।
योऽयं प्रथम सम्बन्धस्य कर्ता केन तस्मै सम्बन्धः प्रतिपादित इति वक्तव्यम् ? [G.627) स्वयमेवेति चेत् ? न; तथैवान्येषामपि प्रसङ्गात् । अथान्यतः, तस्याप्यन्यत इति चेत्, एवं तमुनादित्वान्न केनचित् क्रियत इति दर्शयति
सर्वेषामनभिज्ञानां पूर्वपूर्वप्रसिद्धितः।
सिद्धः सम्बन्ध इत्येवं सम्बन्धादिर्न विद्यते ॥ २२७२॥ य:५ शब्दार्थसम्बन्धः स वृद्धव्यवहारपूर्वकः; सम्बन्धत्वात्, इदानीन्तनसम्बन्धवत्। सम्बन्धश्च विवादास्पदीभूतः सम्बन्ध इति स्वभावहेतुः ॥ २२७२ ॥ १. भेदादर्थस्य-पा०. गा० ।
२. सम्बन्ध: स्यादित्य-जै। ३. वर्णयन्तो-पाल, गा०।
४-४. स्यात्तेऽवबुध्यन्ते-पा०, गा० । ५. जै० पा०. पुस्तकयो स्ति।