________________
श्रुतिपरीक्षा
एवं तावत् प्रतिमर्त्यं न समयः सम्भवतीति प्रतिपादितम्, अधुना "प्रत्युच्चारणमेव" (तत्त्व० २२५३) इति यदुक्तं तत्प्रत्युद्धरन्नाह—
प्रत्युच्चारणनिर्वृत्तिर्न
युक्ता व्यवहारतः । 'सर्गादौ च क्रिया नास्ति तादृक्कालो हि नेष्यते ॥ २२७३ ॥ व्यवहारत इति व्यवहारप्रवृत्तेः । अन्यथा हि पूर्वमकृतसम्बन्धाद्व्यवहारप्रवृत्तिर्न स्यादिति यावत्। साम्प्रतं " जगदादौ च " इति यदुक्तम्, तस्य प्रतिविधानमाह - सर्गादौ चैत। तादृगिति । शब्दार्थसम्बन्धशून्यः सृष्टिसंहारात्मकः ॥ २२७३॥
इष्यते हि जगत् सर्वं न कदाचिदनीदृशम् ।
न महाप्रलये नाम ज्ञायते पारमार्थिकः ॥ २२७४ ॥
अनीदृशमिति । सर्वोच्छेदात्मकम्; तत्र प्रमाणाभावात् ।
कथं तर्हि लोके प्रलयादिव्यवहारप्रसिद्धिः ? इत्याह- न महाप्रलय इत्यादि । ज्ञायत इति लोकेन। पारमार्थिक इति । सर्वोच्छेदात्मकः परिकल्पितस्तु न वार्यत इत्यभिप्रायः । तमेव दर्शयति
रात्रिर्वा प्रलयो नाम लीनत्वात् सर्वकर्मणाम् ।
दिवसः सृष्टिसंज्ञश्च सर्वचेष्टातिसर्जनात् ॥ २२७५ ॥ देशोत्सादकुलोत्सादरूपो वा प्रलयो भवेत् ।
प्रलये तु प्रमाणं नः सर्वोच्छेदात्मके न हि ॥ २२७६ ॥ अथ पारमार्थिकः कस्मान्नेष्यते ? इत्याह- प्रलये त्वित्यादि ॥ २२७५-७६ ॥ भवतु नाम परमार्थिकः प्रलय:, तथामि तदानीमभ्रष्टस्मृतिप्रज्ञादिसंस्कारकस्य कस्यचिदीश्वरादेः ‘कर्तुरभावान्न सम्बन्धकरणं युक्तमिति दर्शयन्नाह—
न चालुप्तस्मृतिः कश्चित् सृष्टिसंहारकारकः । ईश्वरादिः स्थिरो युक्तो यः सम्बन्धं कल्पयेत् ॥ २२७७॥ [G.628] न युक्त इति । तस्य विस्तरेण प्रतिषिद्धत्वात्॥ २२७७॥ नन्वित्यादिना परस्य प्रत्यवस्थानमाशङ्कते— `नन्वानुपूर्व्यनित्यत्वादनित्यो वाचको भवेत् ।
पदं वाचकमिष्टं हि क्रमाधीना च तन्मतिः ॥ २२७८ ॥
५३५
१
. वर्णानुपूर्वी हि पदमिष्टं न स्फोटः, तस्याश्च पुरुषेच्छाधीनत्वादनित्यत्वम् । अतो वर्णानामप्यनित्यत्वं प्राप्नोति; वर्णेभ्योऽनर्थानन्तरत्वादानुपूर्व्याः । कथम् ? इत्याह- पदमित्यादि । तथा हि-वर्णात्मकं पदमेव वाचकमिष्यते; यतो वर्णक्रमकृता पदबुद्धिर्न स्फोटकृता, सच क्रमः पौरुषेयः ॥ २२७८ ॥
एतदेव विवृणोति
वर्णाः सर्वगतत्वाद्वो न स्वतः क्रमवृत्तयः । अनित्यध्वनिकार्यत्वात् क्रमस्यातो विनाशिता ॥ २२७९ ॥
१. ० दानुपूर्व्यस्य जै० ।