________________
५३६
तत्त्वसंग्रहे
व:-युष्माकं मीमांसकानां वर्णानां सर्वगतत्वान्न देशकृतः क्रमः । नापि कालकृतः; नित्यत्वात्तेषाम्, तस्मादभिव्यञ्जकध्वनिकृतः । तस्य चानित्यत्वात् तत्कृतस्याप्यनित्यत्वमिति भावः । प्रयोगः-यदनित्यकृतं तदनित्यं यथा घटादि। अनित्यकृतश्च वर्णक्रम इति स्वभावहेतुः॥
पुरुषाधीनता चास्य तद्विवक्षावशाद् भवेत्।
वर्णानां नित्यता तेन भवतां निष्फला भवेत् ॥२२८०॥ ___ यत् पुरुषविवक्षावशाद् भवति, तत्पौरुषेयत्वेन प्रेक्षावता व्यवहर्त्तव्यम्, यथा पाणिकम्पाक्षिनिकोचादयः, पुरुषेच्छावशाच्च वर्णानां भवति क्रम इति स्वभावहेतुः ॥२२७८. २२८०॥
· अथापि स्याद्-विनैव क्रमेण वर्णा एव श्रोत्रपरिच्छिन्ना अर्थप्रत्यायका भविष्यन्तीत्यत आह
न च क्रमाद्विना वर्णा निर्जाताः प्रतिपादकाः।
क्रमस्यैव पदत्वं च तस्मादेवं प्रसज्यते ॥ २२८१॥ न हि क्रमं विना वर्णा एवार्थप्रतिपत्तिहेतवो दृष्टाः, तस्मादेषामवश्यं क्रमोऽभ्युपगन्तव्यः । एवं सति क्रमस्यैव पदत्वं वाचकत्वं भवतां मीमांसकानां प्रसज्यते, न तु [G.629] केवलानां वर्णानाम्। तस्य च क्रमस्यानित्यत्वाद् वाचकस्याप्यनित्वं स्यात्। ततश्च व्यर्था शब्दनित्यत्वकल्पना । तथा हि-वाचकस्य शब्दस्य नित्यत्वं साधयितुमिष्टम्, नान्यस्य; ततश्च यत्केवलवर्णनित्यसाधनं भवताम्, तत्प्रस्तुतानुपयोगि; तस्यावाचकत्वात्। यच्च बाधकं' क्रमरूपं न तन्नित्यमभ्युपगतमिति सर्वो विफल एव प्रयासः ॥ २२८१॥
पदं वर्णातिरिक्तं तु येषां स्यात् क्रमवर्जितम्।
तेषामेवार्थवत्येषा . शब्दनित्यत्वकल्पना ॥ २२८२॥ येषां पुनर्वैयाकरणानां "वर्णव्यतिरिक्तं स्फोटाख्यमनवयवं पदं वाचकम्" इतीष्टम्, तेषामर्थवत्येषा शब्दनित्यत्वकल्पना; तस्य स्फोटाख्यस्य वस्तुनो नित्यत्वात् ॥ २२८२॥ अत्र परिहारमाह- .
न तावदानुपूर्वस्य पदत्वं नः प्रसज्यते।
न हि वस्त्वन्तराधारमेतद् दृष्टं प्रकाशकम्॥ २२८३॥ अनुपूर्वं स्वभावः =आनुपूर्वम्, तस्यानुपूर्वमात्रस्य नास्माकं वाचकत्वं प्रसज्यते; व्यभिचारित्वादिति भावः । तदेव दर्शयन्नाह-न हीत्यादिना । वस्त्वन्तराधारमिति। मणिमुक्ताद्याधारम् ।। २२८३ ॥ नापि वर्णाधारमानुपूर्वमेव केवलं वाचकमिष्टम्, कथम्? इत्याह
धर्ममात्रमिदं तेषां न वस्त्वन्तरमिष्यते। . न वस्त्वन्तरमिति। स्वतन्त्रवाचकत्वेनेत्यभिप्रायः। अन्यथा हि पारमार्थिको धर्मधर्मिणोर्भेदः स्यात् । स च नाभीष्टः, किं तर्हि ? वाचकम् इत्याह१.व तस्मादेवं- जै०। २.वाचकं- गा०। ३.पुनस्त्वयाकणमानां-पा०। ४-४.०वर्णाश्चैवाल- पा०, गा० ।