________________
श्रुतिपरीक्षा
५३७ इत्थं प्रतीयमानाः स्युर्वर्णास्तेनावबोधकाः॥२२८४॥ इत्थम् विशिष्टेन क्रमेण । एतदुक्तं भवति–न क्रममात्रं वाचकम्, नापि वर्णाधारम्, नापि वर्णमात्रम्, किं तर्हि ? वर्णा एव क्रमोपसृष्टा वाचका इति। तेन न क्रमस्य वाचकत्वं प्रति प्राधान्यम्; तस्य तद्वत्तया प्रतीयमानस्य गुणीभूतत्वात्। किं तर्हि ? वर्णानां तेषां धर्मितया प्रतीतेरिति दर्शितं भवति ॥ २२८४ ॥
यदुक्तम् “अनित्यध्वनिकार्यत्वात्" (तत्त्व० २२७९) इति हेतुद्वयम्, तस्यासिद्धतामाह
न च क्रमस्य कार्यत्वं पूर्वसिद्धपरिग्रहात्। वक्ता न हि क्रमं कश्चित् स्वातन्त्र्येण प्रपद्यते॥२२८५॥ यथैवास्य . परैरुक्तस्तथैवैनं विवक्षति।
परोऽप्येवमतश्चास्य सम्बन्धवंदनादिता॥२२८६॥ [G.630] पूर्वसिद्धपरिग्रहादिति । व्यवस्थितस्यैव क्रमस्योपादानात् । एतदेव स्पष्टयति-वक्ता न होत्यादि। सम्बन्धवदेव हि क्रमोऽप्यनादिः ॥ २२८५-२२८६ ॥
तेनेयं व्यवहारात् स्यादकौटस्थ्येऽपि नित्यता।
यत्नतः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता॥२२८७॥ तेनेत्यादिनोपसंहरति। नइति कृत्यप्रयोगे कर्तरि षष्ठी कृत्वा नसादेशो विहितः। तस्मादसत्यपि पर्वतादिवदस्य क्रमस्य कूटस्थत्वे वृद्धव्यवहारादेव नित्यत्वमवसेयम् । तदनेन व्यवहारनित्यता कथिता भवति क्रमस्य, न कूटस्थनित्यता, यथा पर्वतादीनामिति ॥२२८७॥ यद्येवम्, वर्णानामपि क्रमस्यैव व्यवहारनित्यत्वं कस्मान्नेष्येत? इत्याह
वर्णानामपि न त्वेवमकौटस्थ्येऽपि सेत्स्यति।
चित्येषु सत्सु वर्णेषु व्यवहारात् क्रमोदयः॥२२८८॥ . घटादिरचना यद्वन्नित्येषु परमाणुषु।
तदभावे हि निर्मूला रचना नावधार्यते॥२२८९॥ न हि वर्णानां क्रमवदकौटस्थ्यनित्यत्वेऽपि व्यवहारनित्यतयाऽर्थप्रतिपत्तिव्यवहारः सिध्यति । कथं न सिध्यति? इत्याह-नित्येष्क्त्यिादि। यदि हि कूटस्थनित्यतया वर्णा नित्या भवेयुः, एवं सति पुरुषपरम्परया व्यवहारसम्भवात् क्रमोदयः=क्रमस्यात्मलाभो भवेत्, यथा घटादिरचना; परमाणुमूलात् । क्वचित् क्रमादयइति पाठः । तत्रादिशब्देन सम्बन्धप्रत्यभिज्ञानादयो गृह्यन्ते। अथोभयोरपि वर्णपरमाण्वोर्नित्यत्वमन्तरेण कस्माद्रचना न सम्भवति? इत्याहतदभाव इत्यादि। तदभावइति वर्णपरमाण्वोर्द्वयोरपि कूटस्थनित्यभावें । ननु च घटादयारम्भका इव परमाणवो.वर्णानामपि सूक्ष्मभागाः सन्ति, यथाहुः-"वर्णानामपि वर्णतुरीया भागाः" इति, तत् कथं वर्णानां कूटस्थनित्यता वर्ण्यते? नैष दोषः; स्फोटदूषणेन प्रतिपादितमेतत्, यथा-"न वर्णभागाः सन्ति" ( ) इति ॥ २२८८-२२८९ ॥ १. यत्क्रमे-गा।
२. षष्ठी-गा०। ३. न सा दोषो (यत्क्रमे स्वतन्त्रताप्रतिषेधो)-गा। ४. नित्यभावाभावे-गा०। ५. ते नैष-जै०।