________________
तत्त्वसंग्रहे
किञ्च – यदि कूटस्थनित्यतया वर्णा नित्या न भवेयुः, तदा सर्वेषां प्रयोक्तृणां ‘परप्रयुक्तानेव शब्दान्ब्रूमहे' इत्येषा विवक्षा न स्यात्, अथ च भवति, तस्मात् सा वर्णनित्यत्वमन्तरेण न युक्तेति दर्शयन्नाह
परेणोक्तान् ब्रवीमीति विवक्षा चेदृशी ध्रुवम् । तथा च नित्यतापत्तिर्न चान्यच्चिह्नमस्ति वः ॥ २२९० ॥ [G.631] ननु च यदि गकारादिक्रमः परमार्थतो न नित्य:, व्यञ्जका ध्वनयः, नापि तेषां प्रेरकास्ताल्वादिसंयोगविभागाः नित्याः १, तत्कथमेते व्यवहर्तृभिरुपलक्षयितुं शक्याः, अस्थिरत्वात्; न चानुपलक्षितैरेतै शब्दार्थव्यवहारप्रतिनियतः शक्यं कर्तुम्; अतिप्रसङ्गात् । ततश्च सम्बन्धस्य कृतकत्वे यो दोषः उक्तः सर्वोऽसावभिव्यक्तिपक्षेऽपि समानः । तथा हिये ध्वनयो वर्णानामभिव्यञ्जका दृष्टाः, ताँस्तावद्वक्ता न प्रेरयितुमीशः; तेषां नष्टत्वात् । याँश्च निरस्यति न तेऽभिव्यञ्जका दृष्टाः । तथा ये ताल्वादिसंयोगविभागा' ध्वनीनां प्रेरकाः, तान्न शक्नोति कर्तुम्, याँश्चाभिनवान् करोति न ते दृष्टाः प्रेरकाः, ततश्च कथं वर्णाः क्रमेणाभिव्यक्ता अर्थभेदप्रतीतिहेतवो भवन्ति ? इति सर्वमेतदाशङ्कय परिहरन्नाह -
जात्या यथा घटादीनां व्यवहारोपलक्षणम् ।
तथैव चानुपूर्व्यादेर्जातिद्वारेण सेत्स्यति ॥ २२९१ ॥
यथा घटादेः सत्यप्यनित्यत्वे जात्याश्रयेण व्यवहारः सिध्यति, तथा आनुपूर्व्यादेरनित्यत्वेऽपि सेत्स्यति ॥ २२९१॥
व्यवहारोपलक्षणं कथम् ? इत्याह
५३८
ताल्वादिजातयस्तावत् सर्वपुंसु व्यवस्थिताः ।
वक्ता ताँश्च ध्वनींस्ताभिरुपलक्ष्य निरस्यति ॥ २२९२ ॥ तेषां च जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः । यावद्वर्णं प्रवर्तन्ते व्यक्तयो वा तदन्विताः ॥ २२९३ ॥
तथा हि–ताल्वादिस्थानजातयः सर्वपुरुषसवायिताल्वादिसमवायात् सर्वपुरुषेषु व्यवस्थिताः। प्रयोक्ता च ताभिरेव ताल्वादिजातिभिस्ताल्वादीन्युपलक्ष्य= अवधार्य पश्चाद् ध्वनीन्=व्यञ्जकान् वायून्निरस्यति = प्रेरयति । 'नागृहीतविशेषणा विशेषे बुद्धि:' इति न्यायात् तेषां ध्वनीनां यद्यप्यनित्यत्वम्, तथापि गवाश्वादिजातिवद् यावद्वर्णं यावन्तो वर्णास्तावत्यो जातयः सन्ति, ता एव व्यक्तिसहायिन्यः शब्दाभिव्यक्तिहेतवो भवन्ति । यद्वा- ध्वनिष्यक्तय एव जातिसहायिन्यो वर्णानुरूपेण व्यञ्जनाय प्रवर्त्तन्त इति पक्षान्तरम् ॥ २२९२ - २२९३ ।।
ननु च यद्यपि ध्वनीनां जातयो भिन्नाः सन्ति, तथापि ते ध्वनयो जात्युपलक्षिता अपि न क्रममन्तरेण वर्णाभिव्यक्तिक्रमं सम्पादयितुमलम् । तथा हि-तेषां जातिभेदेन भिन्नानामपि न स्वतः क्रमोऽस्ति; निरवयत्वात् । तत् कथं व्यञ्जकक्रमकृतो वर्णानां क्रमावसाय:? इत्याशङ्कयाह
ताल्वादिसंयोगविभागक्रमपूर्वकम् ।
तत्र
१- १. पाठोऽयं पा०, गा० पुस्तकयोर्नास्ति ।