________________
४६७
नित्यसुखाद्याकाराननुभूतानेवारोपयन्तोऽङ्गनादिषु प्रवर्त्तन्ते, न च शुभादिरूपा विषयाः । न च यद्यदाकारशून्यं तत्तस्मालम्बनं युक्तम्; अतिप्रसङ्गात् । तत् = तस्मादारोपितविषयत्वेन निरालम्बना रागादयः । ततश्च सिद्धमाद्या: प्रथमभाविनोऽपीह जन्मनि ये रागादयः, ते सजातीयाभ्यासंवशात् प्रवर्त्तन्त इति ॥ १९४७-१९५२॥
यदि तर्हि विषया न कारणम्; कथं विषयोर्पानपाते रागादय उत्पद्यमाना दृश्यन्ते ?
इत्याह
लोकायतपरीक्षा
विषयोपनिपाते तु सुखदुःखादिसम्भवाः । तस्मात् समानजातीयवासनापरिपाकजाः ॥ १९५३ ॥ रागद्वेषादयः क्लेशाः प्रतिसङ्ख्यानविद्विषाम् । अयोनिशोमनस्कारविधेयानां यथाबलम् ॥ १९५४ ॥ साक्षात् तु विषया नैव रागद्वेषादिहेतवः ।
एष हि क्रम : - विषयोपनिपाते. सतीन्द्रियजं सुखमुत्पद्यते, तस्माच्च सुखात् प्रतिसङ्ख्यानवैकल्ये सत्यात्मादिविपर्यासलक्षणायोनिशोमनस्कारे स्थितानां [G.548] पूर्वरागाद्याहितवासनापरिपाको भवति, ततो रागादयः क्लेशाः प्रवर्त्तन्त इति न साक्षाद्विषयाः कारणम् ।
स्यादेतत्-स्वराद्धान्तोपवर्णनमात्रमेव केवलम्, न त्वत्र काचिद्युक्तिः ? इत्याहएकः क्लेशो हि तत्र स्यात् सर्वेषां तस्य बोधवत् ॥ १९५५ ॥
एकइति एकाकारः । तत्रेति विषये । तस्येति विषयस्य । बोधरूपवदिति, नीलादिग्राहकाकारवत्। न चैकाकारस्तत्र क्लेशः प्रवर्त्तते । तथा हि- एकस्मिन् स्त्रीरूपे कस्यचिद्रागः, कस्यचिद् द्वेषः, 'कस्यचिदीर्ष्या - इत्यनेकाकारस्य प्रवृत्तिर्दृश्यते ॥। १९५३-१९५५ ॥
स्यादेतत्-न पूर्वाभ्यासादिह जन्मन्याद्यरागादयः, किं तर्हि ? अन्येषां मैथुनादिसमाचारदर्शनात्, परोपदेशाद्वा ? इत्याह
अन्यवृत्त्युपलम्भन परेभ्यः श्रवणेन वा ।
न च तेषामियं वृत्तिर्व्यभिचारोपलम्भनात् ॥ १९५६ ॥
अन्येषां वृत्तिः=चरितमिति यावत् ॥ १९५६॥
अदृष्टाश्रुतवृत्तान्ता वराहहरिणादयः ।
सभागगतिसम्पर्के प्रयान्त्येव हि विक्रियाम् ॥ १९५७ ॥
अदृष्टेत्यादिना तमेव व्यभिचारं दर्शयति । वृत्तान्तः - मैथुनादिसमुदाचारः । सभागा= सदृशी गतिर्यासां वराहीप्रभृतीनां तास्तथोच्यन्ते । ताभिः सह सम्पर्क:- समवधानम् । विक्रियेत विप्लुतिः । मैथुनसमुदाचार इति यावत् ॥ १९५७ ॥
संसारानुचिता धर्माः प्रज्ञाशीलकृपादयः ।
स्वरसेनैव वर्तन्ते तथैव न मदादिवत् ॥ १९५८ ॥
१. आत्मीय० - पा०, गा० ।
३. बोधवदिति पा०, गा० ।
२. अयोनिशोनमस्कार०- पा०, अयोनिसौमनस्कार०- गा० । एवमग्रेऽपि ।