________________
४६८
तत्त्वसंग्रहे अवश्यं चैतदवसेयम्-अभ्यासबलादेव रागादीनां स्वरसप्रवृत्तिरिति । तथा हि-ये प्रज्ञाशीलादयः संसारानुचिता:-संसारे नाभ्यस्ताः, ते स्वरसेन अयत्नेन न वर्तन्ते । मदादिवदिति वैधर्म्यदृष्टान्तः । मदः=दर्पः। अन्यथा मदादिवत् प्रज्ञादीनामपि स्वरसेनैव प्रवृत्तिः स्यात् ॥ १९५८॥ केचिदाहुः-“श्रेष्मणः सकाशाद्रागः, पित्ताद् द्वेषः, वातान्मोहः" इति, तत्राह--
बलासादिप्रभावेण न च तेषां समुद्भवः।
पूर्ववद् व्यभिचारस्य सर्वथाऽप्युपलम्भतः ॥१९५९॥ । [G.549] तत्र बलासः श्लेष्मा। पूर्ववदिति। यथा विषयेषु व्यभिचार. उक्त:-"प्रतिसङ्ख्यानसद्भावे तद्भावेऽप्यतदुद्भवात्' (तत्त्व० १९४९) इत्यादिना। किञ्च-श्वेष्माधुपचयापचाभ्यां न रागादीनामुपचयापचयौ भवतः । न च यद्भेदाद् यस्य भेदो न भवति तत्तस्य कार्यं युक्तम्; अतिप्रसङ्गात् । तथा श्लेष्मणोऽपि तीव्रद्वेषो दृष्टो न तु तीव्ररागः, पित्तप्रकृतिरपि तीव्ररागो दृष्टो न तीव्रद्वेषादिरिति साङ्कर्यं दृश्यते। न च यमन्तरेण यस्य भावः स तस्य हेतुर्युक्तः। यदवस्थो रागी दृष्टस्तदवस्थोऽपि द्वेषीत्यतोऽपि घ्यभिचारान्न श्लेष्मादिधर्मा रागादयः।
तस्मादेते यदभ्यासपूर्वका आद्यभाविनः।
स एवान्यभवः सिद्ध इति नास्तिकता' हता॥१९६०॥ तस्मादित्युपसंहारः। यदभ्यासपूर्वका इति। यस्मिन्नभ्यासो यदभ्यासः, स पूर्वकं कारणं येषामिति विग्रहः ॥ १९५९-१९६० ॥ इहत्येत्यादिना परकीयं चोद्यमाशङ्कते
इहत्याभ्यासपूर्वत्वे साध्ये दृष्टेष्टबाधनम्। भवान्तरीयहेतुत्वे साध्यशून्यं निदर्शनम्॥१९६१॥ अविशेषेण साध्ये तु हेतीरस्य विरुद्धता।
तथैवान्यभवाभ्यासहेतुत्वविनिवर्तनात् ॥१९६२॥ तत्रेदं चोद्यम्-ऐहलौकिकाभ्यासपूर्वत्वं वाऽऽद्यभाविनां साध्यम्, पारलौकिकाभ्यासपूर्वत्वं वा, अविशेषेण वाऽभ्यासपूर्वत्वमात्रम्, तस्मिन् सिद्धे सामर्थ्यात् पारलौकिकाभ्यासपूर्वत्वमिष्टं सिद्धं भवति–इति पक्षत्रयम्। तत्र प्रथमे पक्षे दृष्टेष्टबाधनम् । न ह्याद्यभाविनां रागादीनामिहत्याभ्यासपूर्वत्वं दृष्टम्, नापि चेष्टं परलोकवादिनेति दृष्टेष्टयोर्बाधनम्। द्वितीयेऽपि पक्षे साध्यविकलो दृष्टान्तः, न हि क्वचिल्लोकायतस्य पारलौकिकाभ्यासपूर्वत्वसमन्वितो दृष्टान्तोऽस्ति । तृतीयेऽपि पक्षे विरुद्धता हेतोः, तथैव दृष्टान्तवदेव; अन्यभवाभ्यासपूर्वत्व-. स्येष्टस्याभावसाधनात् ॥ १९६१-१९६२ ॥ सामान्येनैवेत्यादिना प्रतिविधत्ते
सामान्येनैषु साध्यत्वं न च हेतोविरुद्धता।
न हि तेन विरोधोऽस्य येन तद् विनिवर्तयेत्॥१९६३॥ १. स्वरसेन-पा०. गा०।
२. नास्तित्वता-पा०, गा० ।