________________
४६६
तत्त्वसंग्रहे स्वल्पीयानपीत्यादिना प्रसङ्गविपर्यये हेतोः पक्षैकदेशासिद्धतामाह। महात्मनामिति पुण्यवताम्॥ १९४६ ॥ पुनरपि परलोकसिद्धावुपपत्त्यन्तरमाह
रागद्वेषादयश्चामी पटवोऽभ्यासयोगतः। अन्वयव्यतिरेकाभ्यां भवन्तः परिनिश्चिताः ॥१९४७॥ इहत्याभ्यासरहितास्ते ये प्रथमभाविनः। को हेतुर्जन्मनस्तेषां यदि न स्याद् भवान्तरम्॥ १९४८ ॥ न ह्यालम्बनसान्निध्यात् तेषां जन्मोपपद्यते। प्रतिसङ्ख्यानसद्भावे तद्भावेऽप्यतदुद्भवात्॥१९४९ ॥ प्रतिसङ्ख्यानिवृत्तौ च तेषां प्राबल्यदर्शनात्। नष्टाजातेऽपि विषये विपर्यासाभिवृद्धितः ॥ १९५० ।। शुभात्मीयस्थिरादींश्च समारोप्याङ्गनादिषु। रागादयः प्रवर्तन्ते तद्रूपा विषया न च॥१९५१॥ तदनालम्बना एव सदृशाभ्यासशक्तितः। ..
इहत्या अपि वर्तन्ते रागादित्वाद् यथोत्तरे॥१९५२ ।। प्रयोगः-रागद्वेषेणूंमदमानादीनां तथा प्रज्ञाकरुणामैत्र्यादीनां च यत् पाटवं तदभ्यासपूर्वकम्, यथेहैव जन्मनि पटुमन्दयथोक्तगुणस्य पुरुषस्याभ्यासवशाद् दृष्टम् । अस्ति देहादावत्र जन्मनि तेषु तेष्वदृष्टैहलौकिकाभ्यासस्यापि कस्यचित् पुरुषस्य तत्पाटवमिति कार्यहेतुः। अन्वयव्यतिरेकाभ्यां कार्यकारणभावस्य निश्चितत्वादिति नासिद्धो हेतुः। अत एवाह-अन्वयव्यतिरेकाभ्यां भवन्तः परिनिश्चिता इति। [G.547) अपारलौकिकाभ्यासपूर्वत्वसाधनाद्विरुद्धो हेतुरिति चेत् ? न; इहत्याभ्यासरहितास्ते ये प्रथमभाविनः पटवो रागादय इत्ययुक्तमपारलौकिकाभ्यासपूर्वत्वसाधनम्। न चाहेतुकं युक्तम्, नित्यं सत्त्वादिसङ्गात् । तस्माद् यदि जन्मान्तरं न भवेत् तेषाम् रागादीनां पटूनाम्, जन्मन: उत्पत्तेः, को हेतुः स्यात् ! तस्माजन्मान्तरीय एवाभ्यासो हेतुरिति सिद्ध: परलोकः। .
न चालम्बनं कारणम्; आलम्बनस्य भावेऽपि रागादीनां कदाचिदशुभादिप्रतिसवयानसद्भावे सत्यनुत्पत्तेः । अशुभाद्यालम्बना रागादिप्रतिपक्षभूता प्रज्ञा प्रतिसङ्ख्यानम्। असत्यप्यालम्बने रागादीनामुत्पत्तिदर्शनान्न युक्त आलम्बनवशात् तद्भावः । तथा हिअतीतानागतेऽपि विषये सङ्कल्पवशादभिवृद्धसुखादिविपर्यासस्य पुंसः प्रसिङ्ख्याननिवृत्तौ तेषां रागादीनां प्रबलत्वं दृश्यते। न हि यद्भावाभावयोर्यस्य भावाभावाविपर्ययः, तत्तस्य कारणं युक्तम्; अतिप्रसङ्गात्।
.. इतोऽपि नालम्बनवशाद् रागादीनां प्रवृत्तिः । तथा हि-यदि यथालम्बनमेव प्रवर्तेरन्, एवमालम्बनवशात् प्रवृत्ताः स्युर्यथा नीलादिज्ञानम्। न चैवं प्रवर्त्तन्ते, किं तर्हि ? आत्मात्मीय१. ० भिवृद्धिन:-गा।
२. जै०, गाः पुस्तकयो स्ति। . ३.भावादीनां-पा०, गा०।