________________
४६५
लोकायतपरीक्षा नाम्नो रूपम् वाचक: स्वभावः, बुद्धपरिवर्त्यपि बाह्येषु शब्देष्वध्यस्तः। तेषां चेति सद्योजातानाम् । तदुच्छेद इति तेषामभिलाषादीनामुच्छेदस्तदुच्छेदः ॥ १९४१ ॥ [G.545] तन्नामेत्यादिना यथोक्तं प्रमाणार्थमुपसंहरति
तन्नामसंस्तवाभ्यासवासनाबलभाव्यसौ ।
तेषां विकल्परूपत्वाद् विकल्प इव सम्प्रति॥१९४२॥ तदिति तस्मादर्थे ॥ १९४२ ॥ यन्नामेत्यादिना प्रमाणफलं दर्शयति
तन्नामसंस्तवाभ्यासवासनापरिपाकजः ।
विकल्पो वर्त्तते तेषां तत्प्रसिद्धं भवान्तरम्॥१९४३॥ नाम्नः=शब्दस्य, संस्तव:=परिचयः, अनुभव इति यावत्, तस्याभ्यास:=पुनरुत्पादः । यस्मिन् भवे नामसम्भवाभ्यासो यन्नामसम्भवाभ्यास इति। "सप्तमी" (पा०सू० २.१.४०) इति योगविभागात् समासः । तेनाहिता या वासना तस्याः परिपाक: स्वानुरूप: कार्योत्पादने वृत्तिलाभः, ततो जात इति व्युत्पत्तिक्रमः । तेषामिति सद्योजातानाम् ॥ १९४३॥ - नामाभ्यासबलादेव यदि तेषां प्रवर्त्तते।
तत्किं न विस्फुटा वाचः स्मृतिर्वा वाग्ग्मिनामिव॥१९४४॥ नामाभ्यासेत्यादिना परकीयं प्रसङ्गसाधनमोशङ्कते। यदि पूर्वसंकेताभ्यासाद् विकल्पस्य प्रवृत्तिः, तथा बालदारकस्य पूर्वसंकेतानुस्मरणप्रसङ्गः। न ह्यभ्यासानुवृत्तिः स्मरणमन्तरेण युक्ता, वाग्मिनामिव विस्पष्टवाक्प्रवृत्तिप्रसङ्गश्च। ततश्च संकेतकरणानर्थक्यं स्यात्। न चैवं भवति । तस्मात् स्मरणाभावात्, विस्पष्टवाचोऽप्रवृत्तेश्च पूर्वाभ्यासपूर्वत्वं विरुद्धमिति प्रसङ्गविपर्ययेण धर्मस्वरूपनिराकरणमुखेन प्रतिज्ञादोषमाह ॥ १९४४॥ पटीयसेत्यादिना प्रसङ्गविपर्यये च हेतोरनैकान्तिकत्वमाह
पटीयसोपघातेन परिपाकाकुलत्वतः। . न स्यादासामियं वृत्तिः सन्निपातदशास्विव॥१९४५ ॥
न हि पूर्वाभ्यासः सर्वदा स्मरणादिना व्याप्तो येन स्मरणादिकं प्रवर्तयेत्, तन्निवृत्ती वा निवर्त्तत। यावता पूर्वाभ्यासानुभवश्च भवेत्, न च स्मरणम्, यथा सन्निपातावस्थायाम्; तथा स्वप्रेऽपि पूर्वोभ्यासानुवृत्तिर्भवेत्, न च स्मरणम् । सन्निपातग्रहणमुपलक्षणम् । पटीयसेति गर्भपरिवासात् । परिपाकाकुलत्वत इति । [G.546] वासनापरिपाकस्याकुलत्वम् । यथानुभूतप्रतिनियतदेशकालस्वभावादिभेदरूपेणाप्रवृत्तिः। तत्र यदुक्तं चार्वाकण-"जातिस्मरणमसिद्धम्; एकग्रामागतानां सर्वेषां स्मरणात्'' ( ) इति तदनेन प्रतिक्षिप्तं भवति। तथा हिएकग्रामागता अपि सर्वे न स्मरन्ति; यतस्तत्र केचन तेषां मध्ये ये मन्दमतयस्ते मुषितस्मृतयो भवन्त्येव। आसामिति वाचाम् ॥ १९४५ ॥ . स्वल्पीयानपि येषां तु नोपघातो महात्मनाम्।
श्रूयन्ते विस्फुटा वाचस्तेषां सा च स्मृतिः स्फुटा॥१९४६ ।।
२. तस्मादित्यर्थ:- पा०, गा०। ___३. पूर्वाभ्यासानुवृत्तिश्च- पा०, गा० ।
१. बाधक:-पा०।