________________
४६४
तत्त्वसंग्रहे स्वभावविप्रकर्षाद्वा, पिशाचादिदेहवत्। अविप्रकर्षेऽप्यग्दिर्शिना 'सोऽयं प्राणी पतङ्गाद्यात्मतां गतः' इति निश्चेतुमशक्यत्वात्, अचिन्त्यशक्तिभैषज्योपयोगेन परावृत्तदेहवत्॥१९३६-१९३७॥ कथं तर्हि भिन्नाश्रयाणि ज्ञानान्येकसन्तानसम्बद्धान्युच्यन्ते? इत्याह
भिन्नदेहाश्रितत्वेऽपि तद्विशेषानुकारतः।
एकसन्ततिसम्बद्धं प्राच्यज्ञानं प्रबन्धवत्॥१९३८॥ [G.544] तद्विशेषानुकारत इति । तस्य जन्मान्तरवर्त्तिनो ज्ञानस्य यो विशेषस्तमनुकुर्वन्त्यैहिकानि ज्ञानानि। तथा चोक्तम्
"अभ्यासयोगेन शुभाशुभानि कर्माणि सात्म्येन भवन्ति पुंसाम्।
यदप्रयत्नेन विनोपदेशाजन्मान्तरे स्वप्न इवाचरन्ति ॥'. (जा०मा०१५.१)
तत्र यदुक्तं चार्वाकण-"इहलोकपरलोकशरीरयोर्भिन्नत्वात्तद्गतयोरपि चित्तयोरैंक: सन्तानः" (बा० सू०१८) इत्यादिगर्भादौ प्रथमं विज्ञानं विवादगोचराघनैकसन्तानिकं न भवति; भिन्नशरीरत्वान्महिषवराहादिविज्ञानवत् इति, तदनेन प्रतिक्षिप्तं भवति ।। १९३८॥
अपि च स्तनपानादावभिलाष:२ प्रवर्त्तते।.. उद्वेग उपघाते च सद्योजन्मभृतामपि॥१९३९॥ रुदितस्तनपानादिकार्येणासौ च गम्यते।
स च सर्वो विकल्पात्मा स च नामानुषङ्गवान्॥१९४०॥ अपि च-इतोऽपि परलोक: सिद्धः । तथा हि-यो यो विकल्पः स शब्दानुभवाभ्यासपूर्वकः; विकल्पत्वात्, यौवनाद्यवस्थाभाविविकल्पवत्। विकल्पश्चायं सद्योजातानां स्तनपानाद्यभिलाषादिविकल्प इति स्वभावहेतुः । न चाश्रयासिद्धो हेतुः; यतो रुदितस्तनपानादिकार्येणासौ सद्योजातानां स्तनपानाधभिलाषादिर्धर्मी सिद्धः। न हि शक्तिर्विद्वेषादिरूपेणाविकल्पयतो रुदितस्तनपानादिसम्भंवो युक्तः । नापि स्वरूपासिद्ध इति प्रतिपादयति–स च सर्वो विकल्पांत्मेति। सः= स्तनपानाभिलाषादिः। सर्वो विकल्पात्मा विकल्पस्वभावः; प्रार्थनाद्याकारतयाऽनुभूयमानत्वात् । नाप्यनैकान्तिक इति दर्शयननाह-स च नामानुषङ्गवानिति। सइति विकल्पः । यस्मात् सर्वो विकल्पः शब्दोल्लेखेन प्रवृत्ते मानुषक्तः । स च नामानुषङ्गो विकल्पस्य सङ्केताभ्यासमन्तरेण न सम्भवतीति पूर्वं विस्तरेण प्रतिपादितमस्माभिः ॥ १९३९-१९ ४०॥
अथापि स्याद्-भवतु नाम नामानुषङ्गोऽभ्यासपूर्वकः, तथाऽप्सयौ नेष्टप्रसाधनः, किं तर्हि ? ऐहलौकिकाभ्यासपूर्वत्वमेव विपरीतं साधयति? इत्याह
न नामरूपमभ्यस्तमस्मिन् जन्मनि विद्यते।
तेषां चान्यभवाभावे तदुच्छेदः प्रसज्यते॥१९४१॥ एतदुक्तं भवति-ऐहिलौकिकाभ्यास: सद्योजातानां प्रमाणप्रतीतिबाधितः । न च बाध्यमानप्रतिज्ञार्थस्य हेतोविरुद्धत्वं युक्तम्; विरुद्धोऽसति बाधन इति न्यायात्। नामरूपमिति। १. इत्यादि। गर्भादौ-मा० । २. ०वभिलाषे-पा०,गा० । ३. रक्ति०-गा०।