________________
लोकायतपरीक्षा
४६३ प्रतिपादितम् । सपक्षे सद्भावान विरुद्धो हेतुः । नाप्यनैकान्तिकः, स्वोपादानानुद्भवत्वे निर्हेतुकत्वप्रसङ्गात् ॥ १९३१-१९३२॥ कायाश्रितत्वान्न निर्हेतुकत्वमिति चेत् ? इत्याशङ्कयाह
प्रसुप्तिकाद्यवस्थासु शरीरविकृतावपि।
नान्यथात्वं मनोबुद्धेस्तस्मान्नेयं तदाश्रिता ॥१९३३॥ .. प्रसुप्तिकादिरोगोपघातेन हि देहविकारोऽपि मनोमतेरविकारादियं मनोमतिर्न देहाश्रिता, यद्विकारेण नियमात् साक्षाद्यन्न विक्रियते न तत्तदाश्रितम्, यथा गोविकारेणाविक्रियमाणोऽश्वः । न च देहस्य विकारेण नियमात् साक्षाद् विक्रियते मनोबुद्धिः प्रसुप्तिकावस्थायामिति व्यापकानुपलब्धिः ॥ १९३३॥
स्वल्पीयस्यपि नेत्रादेर्विकारे तिमिरादिके। चक्षुराद्यश्रिता बुद्धिर्विकृतैव हि जायते॥१९३४॥ तद्देहस्य विनाशेऽपि मनोधीरतदाश्रया।
स्वोपादानबलेनैव वर्तमानाऽविरोधिनी ॥१९३५॥ स्वल्पीयसीत्यादिना तदाश्रितत्वं साक्षात् तद्विकारविकारित्वेन व्याप्तमिति दर्शयति । [G.543] तस्य चात्र व्यापकस्याभाव इति सिद्धा देहानाश्रिता बुद्धिः । तत्तस्माद् देहनिवृत्तावपि न निवर्तयिष्यत इत्यविरोधः । यो हि यदाश्रितो न भवति तन्निवृत्तौ न नियमेन तस्य निवृत्तिः । तद्यथा गोनिवृत्तौ गवयस्य न नियमेन निवृत्तिः। न च देहो मनोमतेराश्रय इति व्यापकानुपलब्धिः ॥१९३४-१९३५ ॥ -
यदुक्तम्-"मरणान्तरोद्भतदेहान्तर" इत्यादिना श्रीकद्वयेन (तत्त्व०१८६८-६९), तत्राह
केवलाऽपि मनोबद्धिर्यदेवमविरोधिनी। नातोऽन्यदेहसद्भावसिद्धये यत्निनो वयम्॥१९३६॥ न च शक्यनिषेधोऽसावदृष्टावपि संशयात्।।
स्यादेषा मन्दनेत्रस्य स्वच्छधूमाद्यदृष्टिवत् ॥१९३७॥ अयमत्राभिप्रायः-परलोकोऽत्र साधयितुमिष्टः, स च कथं सिध्यति, यदि बुद्धिरनाद्यनन्ता सिध्येत्! अस्या एवावस्थाविशेषः परलोकप्रज्ञप्तेः । न तु देहे आरूप्यधातौ, देहाभावेऽपि परलोकाभ्युपगमात्। सा चेच्चित्तसन्ततिरनाद्यनन्ता सिद्धा, सिद्धो न: परलोक इति नान्यदेहसिद्धये यत्नः क्रियतेऽस्माभिः; निष्फलत्वात् । न च तस्यादृष्टिमात्रेण निषेधः शक्यते कर्तुम् । तथा हि-एषाऽदृष्टिर्जातिविशेषे भावनादिवैकल्यान्मन्दनेत्रस्य भवतः सत्यपि तस्मिन् देहे स्यादपि। न च ब्रूमोऽदर्शनवदिति नानुपलब्धिमात्रेण प्रतिषेधः सिध्यति । तथा हि-सजातिशुद्धदिव्याक्षदृश्योत्तराभवो वर्ण्यते। अत एव साङ्ख्यपरिकल्पितातिवाहिकशरीरस्याप्यप्रतिक्षेपः । पूर्वकालभवस्यापि देशविप्रकर्षानोपलम्भः स्यात्; दूरतरदेशोत्पत्तेः, १. जै० पुस्तके नास्ति।
२. संश्रयात्- पा०, गा०। ३. स्वल्पधूमा०-गा। . ४. परलोकप्रज्ञतौ-पा०, गा०। ५-५. ननु-पा०, गा० ।
५. ब्रूमोऽतनुधूमादर्शन०-गा०/