SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ४६२ तत्त्वसंग्रहे पुरुषस्यादिविज्ञानं स्वोपादानबलोद्भवं विज्ञानत्वादाभोगाद्यनन्तरभाविस्मार्त्तादिविज्ञानवत् । न चायमनैकान्तिको हेतुः; पूर्वं कारणान्तरनिषेधेन प्रतिबन्धस्य साधितत्वात् ॥ १९२७ ।। स्वप्नमूर्छाद्यवस्थासु चित्तं च यदि नेष्यते। स्मृतिः स्यात् तत्र चोत्पत्तौ मरणाभाव एव वा॥१९२८॥ किञ्च-यदि स्वापाद्यवस्थायां चित्तं न भवेत्, तदा मरणमेव स्यात्। अथ तत्र तथाभूते निर्मूलमपगतविज्ञाने देहे पुनरुत्पत्तिरिष्यते विज्ञानस्य, तदा तत्रोत्पत्ताविष्यमाणायां मरणाभावः प्राप्नोति; मृतस्यापि पुनर्विज्ञानोत्पत्तिप्रसङ्गात्, सुप्तप्रबुद्धवत् । मनोबुद्धेरेव जन्मान्तरप्रतिसन्धाने सामर्थ्यात् । तथा चोक्तम् "छेदसन्धानवैराग्यहानिच्युत्युपपत्तयः। . .. मनोविज्ञान एवेष्टाः ॥" (अभि० को०३.४२) इति ॥ १९२८ ॥ अतो मनोबुद्धिः पूर्वबुद्धिमात्राश्रयेति प्रतिपादयन्नाह स्वतन्त्रा मानसी बुद्धिश्चक्षुरादयनपेक्षणात्।. स्वोपादानबलेनैव स्वप्नादाविव वर्त्तते॥१९२९॥ स्वातन्त्र्येऽनपेक्ष्यत्वं हेतुः । सर्वदैवेयं मनोबुद्धिः स्वोपादानकारणमात्रभाविनी, स्वोपादानव्यतिरिक्तचक्षुरादिकारणान्तरानपेक्षणात्, स्वप्नावस्थावत् ।। १९२९ ।। [G.542] तथा हीत्यनेन हेतोरसिद्धतां परिहरति तथा हि न विकल्पानामिन्द्रियार्थव्यपेक्षिता। तदव्यापारभावेऽपि भावाद् व्योमोत्पलादिषु॥१९३०॥ तदव्यापारभावेऽपति । तयोरिन्द्रियार्थयोरव्यापारेऽपीति यावत् । न हि यदव्यापारेऽपि यस्य भावस्तत्तस्य कारणं युक्तम्; अतिप्रसङ्गात् ॥ १९३० ।। - स्यादेतद्-भवतु व्योमोत्पलादिविकल्प इन्द्रियार्थानपेक्षः; तदभावेऽपि भावात् । यस्तु चक्षुषि प्रणिहिते नीलादौ पुरोवर्तिनि विषये नीलमेतदिति विकल्पः प्रवर्तते, स कथमिन्द्रियार्थानपेक्षः, येन पक्षैकदेशेऽसिद्धो हेतुर्न भवेत् ? इत्याह तयोर्भावेऽपि नीलादिर्विकल्पो यः प्रवर्तते। सोऽसदर्थोपरागेण तुल्य एवावसीयते॥१९३१॥ शब्दार्थप्रतिभासित्वाद् वस्तुरूपं न भासते। विकल्पेष्विति सर्वं हि विस्तरेणोपपादितम्॥१९३२॥ तयोरिति इन्द्रियार्थयोः । असदर्थः अर्थशून्य:५, उपराग: निर्भासो यस्योत्प्रेक्षितार्थादिविकल्पस्य सोऽसदर्थोपराग:-व्योमादिविकल्पः । तेन तुल्योऽयमपि निर्विषय इत्यर्थः । कथम्? सर्वो हि विकल्पः शब्दोल्लेखेन प्रवृत्तेः शब्दार्थावभासी,यश्च शब्दार्थावभासी न तत्र वस्तुरूपं भासते; वस्तुरूपे शब्दस्याप्रवृत्तेः, तत्र तस्यासङ्केतितत्वादिति विस्तरेण शब्दार्थपरीक्षायां १. ०हानि..... पत्तय:-पा०,गा०/ २-२. ० भविऽप्यतीतादिविकल्पो-पा०. गा०/ ३. असदर्थोप०-पा०, गा० / ४. इन्द्रियार्थ:-जै०।५. शून्य:-पा०,गा०। ६. शब्दार्थाभासी-जे।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy