________________
लोकायतपरीक्षा
४६१
मूच्र्छादावपि तेनास्य सद्भाव उपपद्यते ॥१९२१॥ [G.540] यदि सर्वमेव ज्ञानमिन्द्रियार्थबलेनैव जायते, तदा साहसं भवेत्, यावता स्वप्नाद्यवस्थायां नीलादिप्रतिभासं मनोविज्ञानमसत्यपि चक्षुरादीन्द्रियविनाऽपि रूपादिनार्थेन संवेद्यते। न चापि तस्य तदानीं कायेन्द्रियमाश्रय इति शक्यं वक्तुम; नीलादिप्रतिभासत्वात् । कायविज्ञानस्य च स्प्रष्टव्यविषयत्वात् । तस्मादर्थावगतिरूपं सर्वं विज्ञानमित्युक्तम्। तेन मूर्छादावपि विज्ञानसद्भावो न विरुद्ध्यते ॥ १९१९-१९२१ ॥
अथापि स्यात्-शक्तिरूपेणावस्थानं विज्ञानस्याविरुद्धम्, स्वरूपेण तु विरुद्धम् ? इत्याह
न चापि शक्तिरूपेण तथा धीरुपतिष्ठते। स्वरूपेणैव बुद्धीनां व्यवस्थानं तदा मतम् ॥१९२२॥ सुप्तमूर्छाद्यवस्थासु चेतो नेति च ते कुतः। निश्चयो वेदनाभावादिति चेत् स कुतो गतः॥१९२३॥ यदीत्थं भवतस्तासु निश्चयः सम्प्रवर्तते। न वेद्मि चित्तमित्येवं सति सिद्धा सचित्तता॥१९२४॥ स्यान्मतम् यदि विज्ञानं दशास्वास्वस्ति तत्कथम्। न स्मृतिः प्रतिबुद्धादेः तदाकारा भवेदिति ? ॥१९२५॥ तदकारणमत्यर्थं पाटवादेरसम्भवात्।
स्मरणं न प्रवर्तेत सद्योजातादिचित्तवत् ॥१९२६॥ 'यदि हि सुप्तमूर्छानिद्रामदाद्यवस्थायां चित्तं नास्तीति निश्चायकं किञ्चित् भवेद्, भवेद्विरोधः । स्ववेदनानुपलम्भोऽस्ति निश्चायकं प्रमाणमिति चेत् ? न; स्वसंवेदनानुपलम्भः कुतः सिद्धः, नाहि तस्यामवस्थायां संवेदनाभावनिश्चयोऽस्ति ! यदि च तासु मूर्छाद्यवस्थासु 'न वेद्यहं चित्तम्' इत्येवं निश्चयः प्रवर्त्तते भवतः, तदा तेनैव तथा प्रवृत्तेन निश्चयेन सचित्तता सिद्धा। अथापि स्याद्-यदि स्वापाद्यवस्थासु चित्तं स्यात्, किमिति [G.541] प्रतिबुद्धादे: पुरुषस्य स्मरणं न भवेत् ? आदिशब्देन विगतमूर्च्छस्य, विगतमदस्येति परिग्रहः । तदेतदस्मरणमकारणमनुभूताभावसिद्धये। यदि ह्यनुभूत इत्येतावन्मात्रेणैव स्मरणं स्यात्, स्यादेतत्, यावता सत्यप्यनुभवे पाटवाभ्यासार्थित्वादिवैकल्यात् स्मरणं न भवति, यथा सद्योजाताद्यवस्थायामनुभूतस्यापि चित्तस्य ॥ १९२२-१९२६ ॥
अस्तित्वेऽपि भवतां तर्हि किं प्रमाणं यदि स्मरणाप्रवृत्तावपि सन्देहः-इति चोदयन्नाह -
यद्येवम्, कथमस्तित्वमस्यासु व्यवसीयते।
पूर्वोपवर्णितादेव हेतोरित्यवगम्यते ॥१९२७॥ अस्येति विज्ञानस्य। आस्विति स्वापाद्यवस्थासु । तत्र पूर्वोपवर्णितो हेतुः-प्रबुद्धादेः १. ज्ञायते-पा०,गा। २. ०न्द्रियेऽरि-जै०।।
३. ० मूर्छाद्यवस्थायां-पा०,गा। ४. मूच्र्छावस्थासु-पा०,गा० । ५. प्रतिचोदयन्नाह-पा०,गा ।