________________
४६०
तत्त्वसंग्रहे
___ न विद्यते चित्तान्तरसन्धानं यस्य तदसन्धानम्। अनेन दृष्टान्तस्यान्यतराप्रसिद्धसाध्यधर्मतामाह। तथा हि-चार्वाकस्य कुतः प्रसिद्धम्- 'अर्हता न चित्तान्तरं प्रतिसन्धत्ते [G.539] मरणचित्तम्' इति।
___अथापि स्यात्-परकीये बौद्धे सिद्धान्ते पठ्यते-"क्षीणा में जातिः, उषितं ब्रह्मचर्यम्, कृतं करणीयम्, नापरमस्माद्भवं प्रजानामि" ( ) इति, अतः सिद्धमसन्धानमिति? तदेतदयुक्तम्; परकीयस्य सिद्धान्तस्य प्रामाण्येनापरिग्रहाल्लोकायतस्य कथं ततोऽप्रामाण्येन परिगृहीतान्निश्चयः; परलोकस्यापि निश्चयप्रसङ्गात् । अथान्यत एव प्रमाणान्तरात् तदवगतम्, तदेव तर्हि किं न साधनमुक्तम्, किमगमकेन जाड्यसंसूचकेनोपन्यस्तेन? न ह्यन्यस्य तदसाधनं येन तन्नाभिधीयते ॥ १९१५॥ .
सिद्धान्ताश्रयणेनापि काँश्चिद् बौद्धान् प्रति साध्यधर्मसमन्वितो न सिद्धो दृष्टान्त इति दर्शयन्नाह
ये चेह सुधियः केचिदप्रतिष्ठितनिर्वृतीन् । ... जिनाँस्तद्याननिष्ठत्वं यानयोश्च प्रचक्षते ॥१९१६॥ तान् प्रत्ययमसिद्धश्च साध्यधर्मसमन्वितः। ।
दृष्टान्तः प्रतिवादीष्टसिद्धान्ताश्रयणेऽपि ते ॥१९१७॥ इहेति सौगते प्रवचने। सुधियो महायानिकाः। केचिदिति माध्यमिकाः। ते हि बुद्धानामप्रतिष्ठितत्वं निर्वाणमाहुः; एकमेवेदं यानं यदुत महायानम्' ( ) इति वचनात् ॥ १९१६-१९१७॥ एवं दृष्टान्तदोषमुक्त्वाऽनैकान्तिकत्वं साधनदोषमाह
बाधकानभिधानाच्च सन्दिग्धव्यतिरेकिणः।।
शङ्कयमानविजातीयसद्भावाद् व्यभिचारिता ॥१९१८॥ बाधकानभिधानादिति सन्दिग्धव्यतिरेकित्वस्य हेतुः । शङ्कयमानेत्यादि तु व्यभिचारितायाः। विजातीये सद्भावो विजातीयसद्भावः। कस्य? हेतोरिति गम्यते। शङ्कयमानश्चासौ विजातीयसद्भावश्चेति विग्रहः । न वा मरणत्वप्रसङ्गो बाधकं प्रमाणम्; परमार्थतः कस्यचिदात्मादिकस्य म्रियमाणस्याभावात्। केवलं तु विसदृशसन्तानोत्पत्तौ "विशिष्टनिकायसभावाख्यावस्थाविशेषोपरमाल्लोके शास्त्रे च तथा व्यवहारः ॥ १९१८ ॥ यदुक्तम् "कललादिषु विज्ञानमस्तीत्येतच्च साहसम्" (तत्त्व० १८६४) इत्यत्राह
कललादिषु विज्ञानमस्तीत्येतन्न साहसम्। असञ्जातेन्द्रियत्वेऽपि ज्ञानं तत्र न किं भवेत् ॥ १९१९॥ इन्द्रियार्थबलोद्भूतं सर्वं विज्ञानमित्यदः। . साहसं वेद्यते यस्मात् स्वप्नादावन्यथाऽपि तत् ॥१९२०॥
रूपमर्थगतेरन्यदप्यस्य व्यवसीयते। १. तथा०-पा०, गा०/
२. ज्ञानं- पा०, गा०। । ३. ० व्यतिरेकिता-पा०, गा० । ४. ० समाख्या०- पा०, गा०; ० सभागाख्या०-जै० पुस्तके पाठा० ।