________________
लोकायतपरीक्षा
४५९
ग्रहणप्रसङ्गात्। किञ्च— यावुभयनिश्चितैकनिश्चितौ तौ भिन्नौ, यथा कुक्षिमूलानुभवनटौ । उभयनिश्चितैकनिश्चिते च देहचैतन्ये इति स्वभावहेतुः । स्वेनैर्वेति आत्मनैव ॥ १९०८-१९०९ ॥ अद्वयज्ञानपक्षे तु नायं हेतुः प्रसिध्यति ।
स्वस्य स्वस्यावभासस्य वेदनात् तिमिरादिवत् ॥ १९१० ॥ उदयानन्तरध्वंसि नैरन्तर्येण लक्ष्यते।
चेतोदेहस्य ताद्रूप्ये क्षणिकत्वं न किं मतम् ॥ १९११ ॥ यद्येवम्, विज्ञानमात्रवादप्रतिक्षेपोऽनेनैव हेतुना क्रियमाणो दुर्वारः स्यात् ? इत्यत आह— नायं हेतुः प्रसिध्यतीति । असिद्धता हेतुदोषो भवतीति यावत् । तथा हिउभयनिश्चितत्वं विज्ञानवादिनों न सिद्धम् ; स्वप्रतिभासस्यैव सर्वदा वेदनात्, तैमिरिकद्वयद्विचन्द्रदर्शनवत् । अपि च- विलक्षणार्थवित्तिकाले निरन्तरमुत्पादसमनन्तरविनाशि [G.538] चित्तं स्पष्टं लक्ष्यते । ततश्च देहस्य ताद्रूप्येऽभ्युपगम्यमाने क्षणिकत्वप्रसङ्गः ॥ १९०१०-१९११॥
एवं तावत् तादात्म्यलक्षणवृत्तिर्न सिद्धा । अथ तदुत्पत्तिलक्षणा वृत्तिः, सा च तदुत्पत्तिस्तदाश्रयद्वारेण वा स्यान्मनोविज्ञानस्य, यथा चक्षुरादिविज्ञानस्य चक्षुराद्याश्रयेण । तदव्यभिचाराद्वा, यथा धूमस्याग्न्यव्यभिचारिणः । तदत्र द्विविधाऽपि वृत्तिरसिद्धा । तथा हिमनोधीर्नेन्द्रियबुद्धिवत् कायाश्रिता; नियमेन साक्षात् तद्विकाराविधानात् । नापि तदविनाभाविनी;. विरूपे धातौ कायमन्तरेणापि भावाभ्युपगमात् । तथाप्यभ्युपगम्य सिद्धतां हेतोरनैकान्ति
कतामाह
तदाश्रयेण सम्भूतेस्तेन वाऽब्यभिचारितः ।
तत्र वृत्तिर्यदीष्येत तथापि व्यभिचारिता ॥ १९१२ ॥ प्रागवस्थमपि ज्ञानं प्रतिक्षणविनश्वरे ।
देवृत्तं करोत्येव प्रतिसन्धिं निरन्तरम् ॥ १९१३॥
• तथा हि-चित्तान्तरप्रतिसन्धानस्य चित्तदेहवृत्तेश्च विरोधाभावात्, यथा मरणक्षणात् प्रागवस्थं जीवदवस्थाभावि विज्ञानं प्रतिसन्धि करोत्येव भिन्नदेहवृत्तमपि; देहस्य क्षणिकत्वादित्यनैकान्तिको हेतुः ।
एकसन्तानभावेन न चेत् तत्र विभिन्नता ।
अन्यत्राऽप्येकसन्तानभावान्मा भूद् विभिन्नता ॥ १९१४॥
अथैकसन्तानत्वेन देहस्याभेदादभिन्नदेहवृत्तित्वं कल्प्यते ? तदाऽन्तराभाविकदेहेऽभि समानम्। तथा हि–पञ्चायतनलक्षणो देहसन्तानस्यावस्थाभेद एवायमामुत्रिको देह : ; बालवृद्धावस्थाभेदवत् । द्वितीयेऽपि प्रयोगे 'ज्ञानत्वात्' इत्यस्य हेतोः साध्यविपक्षे बाधकप्रमाणानुपदर्शनादनैकान्तिकत्वं स्पष्टमेवेति नाक्तम्॥ १९१३-१९१४॥
‘“सरागमरणं चित्तम्” (तत्त्व० १८६२) इत्यादिकं तृतीयं प्रयोगमधिकृत्याह - . क्षीणास्त्रवस्य विज्ञानमसन्धानं कुतो गतम् । परकीयकृतान्ताच्चेन्न प्रामाण्यापरिग्रहात् ॥ १९१५ ।।
१. पा०, गा० पुस्तकयोर्नास्ति ।
२. मतम्- पा०, गा० ।