________________
४५८
तत्त्वसंग्रहे
नैष दोष: ; पूर्वमेव कायस्य हेतुत्वं निषिद्धम् - " चेतसो यौगपद्यप्रसङ्गः" इत्यनेन; अपेक्षणीयस्य सहकारिकारणस्यातिरेकिणोऽभावात्, नित्यस्यापेक्षानुपपत्तेः।
अनित्यपक्षे तु पूर्वोक्तं वर्त्तमानं च दूषणम्। न चाभ्युपगमात्रेण प्रमाणसिद्धस्याप्यसिद्धत्वं युक्तम्; अतिप्रसङ्गात्, तथा न किञ्चित् कस्यचित् साधनं स्यात् । यथाऽऽह— 'नानिष्टेर्दूषणं सर्वम्' इति ।
किञ्च– यदाऽऽभोगचित्तसमनन्तरं स्मरणमुत्पद्यमानं सुपरिनिश्चितम्, तदा शुभादिचित्ताद्रागः । तथाहि - सा सुन्दरीति तरुणीति तनूदरीति सुमुखीति चेत्यादि शुभं चिन्तयतां रागिणां राग उत्पद्यते; तथा ममानेनापकृतम्, अयमपकरिष्यति', अयमपकरोतीत्यादि चिन्तयतश्च द्वेष उत्पद्यमानो निश्चितः, स कथमपह्नोतुं शक्यते, विशेषतः प्रत्यक्षमात्रवादिना । तथा पूर्वभाविनः श्रुतशिल्पाद्यभ्यासविशेषस्योत्कर्षापकर्षाभ्यामुत्तरबुद्धीनां समुत्कर्षापकर्षो दृष्टौ, तत्राऽर्थान्तरव्यासङ्गेन मनस्कारवैगुण्यादर्थान्तराग्रहणं दृष्टमिति ज्ञानस्य ज्ञानहेतुत्वं युक्तियुक्तत्वादवचनीयम्। न तु भूतानांम्; युक्तिविरोधात् । अत एव ज्ञानस्य ज्ञानहेतुत्वप्रतिपादनात् ।
· कार्यकारणतेत्यादौ प्रथमे प्रसङ्गे 'विभिन्नदेहवृत्तित्वात्' इत्यस्य, हेतोरसिद्धता, तथा हि–यदि तावदाधाराधेयलक्षणा वृत्तिरभिप्रेता, सा सुतरां चित्तस्यापतनधर्मणः कायेष्वसिद्धा; सत्यपि कार्यकारणभावे चित्तस्यामूर्त्तत्वेनापतनधर्मकत्वात् । न चापतनधर्मकस्याधारो युक्तः; अकिञ्चित्करत्वात् ॥ १९००-१९०५ ॥
जलादीनां तर्हि किं कुर्वन्नाधारः स्यात् ? इत्याहस्यादाश्रयो जलादीनां पतनप्रतिषेधतः । चेतसामगतीनां च किमाधारैः प्रयोजनम् ॥ १९०६ ॥ तादात्म्येन स्थितिर्वृत्तिरिह चेत् परिकल्प्यते ।
साप्ययुक्ता न हि ज्ञानं युक्तं कायात्मकं तव ॥ १९०७॥
[G.537] प्रकृत्या हि मूर्त्तस्य' स्वोपादानदेशपरिहारेणोत्पद्यमानस्योपादानदेशोत्पादहेतुत्वादाधारो गमनप्रतिबन्धाद्व्यवस्थाप्यते । न त्वमूर्त्तस्य शक्यं तथा व्यवस्थापयितुम् । अथ तादात्म्यलक्षणा वृत्तिरभिप्रेता ? साऽपि न सिद्धा । न हि तव बहिरर्थाभिनिवेशिनो वक्तुं युक्तम्- कायात्मकं विज्ञानमिति । मम तु युक्तं विज्ञानमात्रवादिन: आलयविज्ञानस्वभावत्वात् कायस्येत्यभिप्राय: ॥ १९०६-१९०७ ॥
कस्मान्न युक्तम् ? इत्याह
तादात्म्ये हि यथा कायो विस्पष्टं वेद्यते परैः । रागद्वेषादिचेतोऽपि तथा किं न प्रवेद्यते ! ।। १९०८ ॥ स्वेनैव वेद्यते चेतो देहस्तु स्वपरैरपि । यौ चैवं तौ विभिद्येते कुक्षिमूलनटाविव ॥ १९०९ ॥
तथा हि-देहे गृह्यमाणे परै रागादीनामपि ग्रहणं प्राप्नोति; अव्यतिरेकात् । न च विप्रशक्त्याऽनेकान्तः, तस्यास्तदानीमप्रत्यक्षत्वात् । न तु चैतन्यस्याप्रत्यक्षत्वम्; आत्मनाप्य१. अथ करिष्यति पा०, गा० । २ - २. प्रकृत्यादिमूर्तस्य- पा०, क्षित्यादिमूर्तस्य- गा० ।