________________
लोकायतपरीक्षा
४५७ नियामकाभावेन प्रतिनियमायोगात्। अतो निर्हेतुकत्वे नियतविज्ञानादिधर्मानुपपत्तिर्बाधकं प्रमाणम्, कादाचित्कत्वानुपत्तिश्च ॥ १८९७॥ एवमतीतं जन्म प्रसाध्य, अनागतमपि प्रसाधयितुं प्रमाणयन्नाह
मरणक्षणविज्ञानं स्वोपादेयोदयक्षमम्।
रागिणो हीनसङ्गत्वात् पूर्वविज्ञानवत् तथा ॥१८९८॥ यत्सरागं चित्तं तत् स्वोपादेयचित्तान्तरोदयसमर्थम्; सरागत्वात् पूर्वावस्थाचित्तवत्। सरागं च मरणचित्तमिति स्वभावहेतुः । न चासिद्धो हेतुः, यतो यद् रागादिप्रतिपक्षनैरात्म्यदर्शनवियुक्तं चित्तं तत्सर्वं सरागमेव; प्रतिपक्षवियुक्तत्वात्, सुरताभोगचित्तवदिति। नाप्यनैकान्तिकः; एतावन्मात्रहेतुकत्वाच्चित्तान्तरोदयस्येत्यविकलकारणानुपपत्तिर्बाधकं प्रमाणम्॥ १८९८॥ . एतदेव दर्शयति- .
येन रूपेण विज्ञानं जनयत् परिनिश्चितम्।
प्राक् पश्चादपि तद्विभ्रदखण्डं किं न कारकम् ॥१८९९॥ तद्विभ्रदिति रूपम्', स्वभावमिति यावत् ॥ १८९९ ॥ परपक्ष इत्यादिना प्रयोगद्वयेऽपि दृष्टान्तयोः साध्यविकलतां चोदयति
परपक्षे ननु ज्ञानं कायादेवेति संस्थितिः। दृष्टान्तौ तत् कथं सिद्धौ साध्यधर्मसमन्वितौ ?॥१९००॥ तन्न कायस्य हेतुत्वं प्रागेव विनिवारितम्। चेतसो युगपत् . प्राप्तेरभावाच्चातिरेकिणः॥१९०१॥ आभोगशुभचित्तादिभावित्वेन विनिश्चितम्।
स्मतिरागादिविज्ञानं तनिषेद्धं न पार्यते॥१९०२॥ .. निहासातिशयौ दृष्टौ बुद्धीनां पूर्वभाविनः। ... बुद्ध्यध्यासविशेषस्य समुत्कर्षापकर्षत: ॥१९०३॥
अन्यार्थी शक्तिविगुणे ज्ञाने वार्थान्तराग्रहात्। ..' - ज्ञानस्य ज्ञानहेतुत्वं न याति वचनीयताम् ॥१९०४॥
विभिन्नदेहवृत्तित्वमत' एव न सिध्यति।
धर्मिणश्चेतसो वृत्तिः का वा कायेष्वपातिनः॥१९०५॥ [G.536] तथा हि-स्वोपादानोद्भवत्वं स्वोपादेयोदयक्षमत्वं च साध्यधर्मः । यस्य च 'नित्यं कायादेव विज्ञानमुत्पद्यते' इति दर्शनम्, तस्य न क्वचिद् यथोक्तसाध्यधर्मत्वसमन्वितो दृष्टान्तः सिद्ध इति कथम् 'इदानीन्तनचित्तवत्', 'पूर्वविज्ञानवत्'-इत्येतयोर्दृष्टान्तयोरुपन्यास इति? १. भोगा---पा०, गा०। २. स्वरूपम्-पा०, गा०। ३-३. च तज्ज्ञानं-पा०, गा० । ४. ननु-पा०, गा०। ५. पू....... -पा०।
६. पा० पुस्तके नास्ति। ७-७. .......विगुणे-पा०।
८-८. ज्ञातव्यार्था०-पा०, गा०। ९-९. विभिन्नदेहवृत्तित्वा.......-पा०।
१०.......चेतसो-पा०।