________________
४५६
तत्त्वसंग्रहे
[G.534] तत् सन्तानान्तरचित्तं मात्रादिसम्बन्धि, उपादानकारणं वा स्यात्, सहकारिकारणं वा? न तावदुपादानकारणम्, पुत्रज्ञानसन्तानेऽपि मातापितृश्रुतादिसंस्कारादिविशेषानुत्पत्तिप्रसङ्गात्', यथा पित्रोरेव स्वोत्तरबुद्धिषु । यस्मादुत्तरेषु क्षणेषु यत् पूर्वक्षणसंस्कारानुवर्तनम्, अयमुपादानोपादेयधर्मो व्यवस्थितः; स्वसन्तानेऽन्वयव्यतिरेकाभ्यां निश्चितत्वात्। - अथ मतम्-यथैकस्मात् प्रदीपान्तरोत्पत्तौ न पूर्वदीपसंस्कारेण स्थौल्यादिलक्षणेन विशिष्टस्योत्तरस्य दीपस्य सम्भवः, किं तर्हि ? नि:संस्कारस्य प्रदीपमात्रस्योत्पत्तिः, अन्यतस्तु तस्य दीपान्तरस्य स्वेन्धनादेः सकाशाद् विशेषः, तद्वत्सु तबुद्धेरिति? तन्न; यस्मात् प्रदीपादिसंस्कारः स्वाश्रयेऽपि तावन्न सन्तानमवबध्नाति, अस्थिरत्वात् तस्य। तथा हिइन्धनापचये तस्यैव दीपस्य तनुत्वं दृश्यते । न त्वेवमस्थिरः श्रुतादिसंस्कारः, तस्य चिरकालमवस्थानात् । अतो न दीपादिवन्निःसंस्कारस्य बुद्धिमात्रस्य सम्भवो युक्तः।।
किञ्च-प्रदीपादौ बहुतराल्पपरमाणुसञ्चयोत्पादादुपकल्पितौ विशेषाविशेषोऽस्ति, अविशेषो वा। इह त्वेकस्मिन्नेव वस्तुलक्षणे श्रुतादिसंस्कारेण विशेषो मातृबुद्धिवर्तिनि, अविशेषस्तु सुतबुद्धिवर्तिनीति किं केन शास्यम्!
किञ्च-उपादानकारणत्वेऽयं प्रसङ्ग उच्यते, न च दीपान्तरं दीपान्तरस्योपादानकारणम्; भिन्नसन्तानत्वादिति यत्किञ्चिदेतत्। . .. . अपि च-येषां संस्वेदजातीनां मातैव नास्ति तेषां कथमन्यविज्ञानजा बुद्धिरित्यलं प्रसङ्गेन।
अथ सहकारि कारणमिति पक्षस्तदा सिद्धसाध्यता॥ १८९२-१८९५ ॥ । तस्मादित्यनादित्वसाधने प्रमाणयति
तस्मात् तत्रादिविज्ञानं स्वोपादानबलोद्भवम्। .
विज्ञानत्वादिहेतुभ्य इदानीन्तनचित्तवत्॥१८९६॥ · प्रयोगः-यद्विज्ञानवेदनासंज्ञासंस्कारस्कन्धचतुष्टयस्वभावं वस्तु तत्स्वोपादानबलोद्भतम्; विज्ञानादित्वात्, यथा यौवनाद्यवस्थासु तदेव स्कन्धचतुष्टयम्। विज्ञानदिस्वभावस्य [G.535] प्रथमजन्मचित्तादिकलाप इति स्वभावहेतुः। तत्रादिविज्ञानमिति विज्ञानग्रहणमुपलक्षणम् । वेदनादयोऽपि ग्रहीतव्याः ॥ १८९६ ॥ साध्यविपर्यये हेतोर्बाधकं प्रमाणमाह_अन्यहेतुप्रतिक्षेपादहेतुत्वे च संस्थिते।
अन्यथा नियतो धर्मो नायं तस्य प्रसज्यते ॥१८९७॥ अन्येषां नित्यमन:कालदिगीशादीनां पूर्वं प्रतिक्षेपात् स्वोपादानस्य चानभ्युपगमेऽहेतुकत्वं स्यात्, ततश्चायं विज्ञानादित्वलक्षणो नियतो धर्मो न स्यात्; आकस्मिकस्य स्वभावस्य १. नुवृत्तिप्र०-गा०।
२. एवमुपा०-पा०, गा०। ३. स्वेत्वनादे.-पा०।
४. तावत्-पा०, गा०।५. इन्धनायपये-पा०।
६. तत्त्वं-पा०, असत्त्वं-गा। ७. श्रुदादि०-जै०।
८. ०दानुपकल्पितौ-पा०, गा० ।