________________
लोकायतपरीक्षा
४५५
च - " स्वतन्त्रा मानसी" (तत्त्व० १९२९) इत्यादिना, " अपि च स्तनपानादौ " ( तत्त्व ० १९३९) इत्यादिना च साधारणं वक्ष्यतीत्यलं बहुना ।
किञ्च-तेषाम् = चार्वाकाणां क्षणिकत्वमभ्युपगच्छताम्, स्वोपगमः = स्वसिद्धान्तो बाध्यते=भूतानां नित्यत्वाभ्युपगमो बाध्यते; भूतानां नित्यत्वाभ्युपगमात् ॥१८८५-१८८६ ॥ यदि न्यायानुरागाद् वः स्वपक्षेऽप्यनपेक्षता ।
भूतान्येव न सन्तीति न्यायोऽयं पर इष्यताम् ॥ १८८७ ॥ [G.533] अथ युक्त्युपेतत्वात् क्षणिकत्वमभ्युपगम्यते, तदा विज्ञप्तिमात्रतानयस्तर्हि पर उत्कृष्टोऽभ्युपगम्यताम्; तत्रापि युक्त्युपेतत्वस्याभ्युपगमकारणस्य तुल्यत्वात् ॥ १८८७ ॥ कथम् ? इत्याह
-
नावयव्यात्मता तेषां नापि युक्ताऽणुरूपता ।
अयोगात् परमाणूनामित्येतदभिधास्यते ॥ १८८८ ॥ तेषामिति महाभूतानाम् । अभिधास्यत इति । समनन्तरमेव बहिरर्थपरीक्षायाम् ॥ १८८८ ।। यदि न सन्त्येव भूतानि कथं तर्हि प्रतिभासन्ते ? इत्याहअबहिस्तत्त्वरूपाणि वासनापरिपाकतः ।
विज्ञाने प्रतिभासन्ते स्वप्नादाविव नान्यतः ॥ १८८९ ॥ अन्यत इति । विज्ञानादन्यत्र बाह्य इति यावत् ॥१८८९ ॥ कथं तर्हि पृथिवीत्यादिव्यवहारो लोकशास्त्रयोः ? इत्याहविज्ञानस्यैव निर्भासं समाश्रित्य प्रकल्प्यते । स्वप्नमायोपमं नेदं महाभूतचतुष्टयम् ॥ १८९० ॥ यदि भूतानि न सन्ति, कस्तर्हि ज्ञानहेतुः ? इत्याहतदन्यस्य तदाभावे हेतुत्वं नोपपद्यते ।
प्राग्भूतं भूतनिर्भासं ज्ञानं तु जनयेत् परम् ॥ १८९१॥ तदन्यस्येति । तस्माद् विज्ञानादन्यस्य भूतचतुष्टयस्य ॥ १८९१ ॥
एवं भूतमात्रोद्भवं तावदाद्यं चित्तं न भवतीति प्रतिपादितम्, इदानीम् " यद्वाऽन्य
ज्ञानमात्रज़म्`'' (तत्त्व० १८७९) इत्येतत्पक्षनिराकरणायाह
सन्तानान्तरविज्ञानं तस्य कारणमिष्यते ।
यदि तत् किमुपादानं सहकार्यथ वाऽस्य किम् ॥ १८९२ ॥ उपादानमभीष्टं चेत् तनयज्ञानसन्ततौ। पित्रोः श्रुतादिसंस्कारविशेषानुगमो भवेत् ॥ १८९३ ॥ यद्व्यवस्थितः ।
उपादानतदादेयधर्मोऽयं
अन्वयव्यतिरेकाभ्यां निश्चितश्च स्वसन्ततौ ॥ १८९४ ॥ स्वोपादानबलोद्भूते सहकारित्वकल्पने ।
सन्तानान्तरचित्तस्य न काचिद् व्याहतिर्भवेत् ॥ १८९५ ॥ १- १. पा०, गा० पुस्तकयोर्नास्ति ।
२. च जन्यवि० - पा०, गा० ।