________________
४५४
तत्त्वसंग्रहे स्वलक्षणरूपः शब्दात्मा वाचकः, नाप्यासौ ज्ञानात्मधर्मः । सामान्यलक्षणरूपस्तु यद्यपि वाचकः, तथाप्यसौ ज्ञानात्मधर्मो न भवति; बाह्य एव' शब्दस्वलक्षण श्रोत्रावसेये तस्य योज्यमानत्वात्, न ज्ञानात्मनि। न ह्यन्यगतं सामान्यमन्यत्र योज्यते; ज्ञानेऽतिप्रसङ्गात्। एवं हि गोत्वमश्वादावपि योज्यते। न चागृहीतशब्दस्वलक्षणे धर्मिणि तद्धर्मो वाचकात्मा योजयितुं शक्यते; धर्माणां धर्मिपरतन्त्रतया स्वातन्त्र्येणाग्रहणात् । नापि विकल्पेन स्वलक्षणात्मा धर्मी ग्रहीतुं शक्येत; तस्य सामान्यलक्षणविषयत्वात्। तस्मादनादिस्वलक्षणानुभवाहितवासनाप्रबोधजन्मानो विकिल्पा इति सिद्धम्।
. नापि शब्दार्थग्रहणादिति पक्षः, न ह्यर्थे शब्दाः सन्ति, तदात्मांनो [G.532] वा; अव्युत्पन्नस्यापि प्रतीतिप्रसङ्गात्, यथेष्टमर्थेषु नियोगाभावप्रसङ्गाच्च । किञ्च-अनित्यादिरूपेणार्थस्याविशेषेऽपि न विकल्पः सर्वानाकारान् युगपद् विकल्पयति; आकारान्तरव्यवच्छेदेन प्रतिनियतैकाकारोपग्रहेणैव विकल्पस्योत्पत्तेः । अतश्चैकाकारविकल्पेन कारणं वक्तव्यम् । न चाभ्यासात् तदन्यद्वक्तुं शक्यम्, यथा कुणपादिविकल्पानाम्। ततश्च पूर्वाभ्यासवशेन विकल्पकस्य प्रवृत्तेरनादिर्विकल्पका बुद्धिरिति सिद्धम्। . .
____ अथाविकल्पिकेति पक्षः, तदा न कदाचिद्विकल्पिका बुद्धिरुप्तद्यते । प्रोक्तनीत्या सङ्केतवशादुत्तरकालमुत्पद्यत इति चेत् ? न; निर्विकल्पकज्ञाने स्थितस्य पुंसः सङ्केतस्य कर्तुमशक्यत्वात्। तथा हि-न यावच्छब्दसामान्यमर्थसामान्यं वा बुद्धाववभासते। न तावत् सङ्केतः शक्यते कर्तुम् । न च विकल्पे विज्ञाने सामान्यं प्रत्यवभासते। यच्च प्रत्यवभासते स्वलक्षणं न तत्र तेन वा सङ्केतः क्रियते; व्यवहारार्थत्वात् तस्य । सङ्केतकालदृष्टस्य स्वलक्षणस्य व्यवहारकालेऽस्ति सम्भव इति न स्वलक्षणे सङ्केतकरणात् पूर्वं विकल्पोऽवश्यमभ्युपगन्तव्यः । स चाभ्यासमन्तरेण सिध्यतीति सिद्धाऽनादिता।
___ अपि च-यदि पूर्वजन्माभ्यासाहितवासनान्वयात् प्रथमजन्मभाविनी नेष्यते बुद्धिः, तदा सद्योजातस्य सतः शिशोस्तिर्यग्गतस्यापीदं सुखस्य साधनमिव दुःखस्येति व्यवसाय: कथं भवेत् ! येन सुखसाधनं स्तनादिकमन्विच्छति। तच्चालभमानो रोदनमारभते, प्राप्य च सहसा व्यपगतरुदितोऽभ्यवहारादिक्रियां कुरुते। न ह्यनेन कदाचित् स्तनादेः क्षुत्पीडाद्युपशमनादिहेतुत्वमनुभूतम् । न चापि प्रपापतनादेरुपहतिकारणता, येन सद्योजातोऽपि वानरादिशिशुरवपातपतनप्रभवदुःखानुस्मरणभीतो' मातुरतीव क्रोडमाश्रुिष्यति, प्रपातादिस्थानं च परिहरति। न ह्यननुभूतेष्टानिष्टसाधनफलानि नियमेन जिहासन्त्युपादित्सन्ते वा; अतिप्रसङ्गात्। अयसोऽयस्कान्तापसर्पणदृष्टान्तोऽप्ययुक्त एव, न हि तन्निर्हेतुकम्; सर्वदा सत्त्वादिप्रसङ्गात् । सहेतुकत्वे वा यथा तस्य हेतुरयस्कान्तो निर्दिश्यतेऽन्वयव्यतिरेकसिद्धः, तथापि हानोपादानुष्ठानस्य हेतुर्वाच्यः । न चासौ निर्देष्टं शक्यते, अन्यत्राभ्यासात्। तस्मात् पूर्वाभ्यासकृत एवायं बालानामिष्टानिष्टोपादानपरित्यागलक्षणो व्यवहार इति सिद्धा बुद्धरनादितेत्यभिप्रायः । तथा ११. ०पर-पा०. गा०/
२-२. विकल्पक०-पा०. गा० । ३. भंश:-पा०।
४. अनुभूतेति शेषः।। ५. द:खान्मरणभीतो-पा०, गा०।
६. हेतुर्भाव्य-पा०, गा०।