________________
लोकायतपरीक्षा
४५३ राननुविधानात्। ततश्चाहेतुकत्वप्रसङ्गः। न च प्रथमकालं देहस्य विज्ञानं प्रति साक्षाजनकत्वव्यतिरेकेणान्यदुपादानत्वं त्वया गृहीतम्, किं तर्हि ? साक्षादुपकारित्वमेव। 'न 'चोत्तरकालमप्यस्तीति किं नोपादानकारणं स्यात् ! अथान्यत् पूर्वमपि मा भूत्; पश्चाद्वदविशेषात्। न चोत्तरकालमपि पूर्वविज्ञानसहकारी देह एवोत्तरोत्तरबुद्धेरुपादानं भविष्यतीति शक्यं वक्तुम्; पूर्वं विस्तरेणोपादानत्वस्य निषिद्धत्वात्, प्रथमजन्मबुद्धरपि बुद्ध्यन्तरपूर्वकत्वप्रसङ्गात् । अत एवानित्यभूतपक्षेऽप्येतदा चार्टीयं दूषणं सुतरां शुष्यति। यदाह
"देहात् सकृदुत्पन्ना धीर्यदि स्वजात्या नियम्यते।
परतश्चेत् समर्थस्य देहस्य विरतिः कुतः"॥ (प्र० वा० १.११५) इति। तस्मात् सिद्धा मनोबुद्धरनादिता ।।
अथ वा-सर्वैव बुद्धिरविशेषेणानादिः सिद्धा। तथा हि-आदिबुद्धिर्भवन्ती अक्षबुद्धिर्वा भवेत्, मनोबुद्धिर्वा ? न तावदाद्यः पक्षः; सुप्तमूर्छान्यचित्तानां सत्यप्यक्षेऽनुगुणमनस्काराभावादक्षबुद्धेरनुत्पत्तेः । अतो न केवलमिन्द्रियमक्षबुद्धेः कारणम्, [G.531] अपि तु मनस्कारविशेषसापेक्षमिति निश्चीयते । अन्वयव्यतिरेकसमधिगम्यत्वात् कार्यकारणभावस्य। न चापि यतो यत् प्रथमतरमुत्पद्यमानं निश्चितं तत् ततोऽन्यस्मात् प्रथमतरमुदयमासादयति; अहेतुकत्वप्रसङ्गात्, धूम इवानग्नेः । प्रथमतरं चाक्षबुद्धिरुत्पद्यमानाऽनुगुणमनस्कारसापेक्षैवोत्पद्यत इति तस्मान्न केवलमिन्द्रियमस्याः कदाचित् कारणमिति सिद्धम्; अन्यथा निर्हेतुकत्वप्रसङ्गो बाधकं प्रमाणम्।
___नापि मनोबुद्धिरिति पक्षः । न हि साऽक्षरनुपलब्धेऽर्थे स्वातन्त्र्येण प्रवर्तते; अन्धवधिराद्यभावप्रसङ्गात् । प्रवर्त्ततां वा, किं सा सविकल्पिका? आहोस्विदविकल्पिका? इति वक्तव्यम्। तत्र न तावदाद्यः पक्षः, तथा हि-विकल्पः प्रवर्त्तमानः सर्व एव बोधकशब्दाकारानुस्यूत एव वर्त्तते; अन्तर्जल्पाकारतया नित्यमनुभूयमानत्वात्। सा च वाचकशब्दाकारता विकल्पस्य सङ्केतग्रहणवशाद्वा भवेत्, यद्वा वाचकात्मनः शब्दरूपस्य, ज्ञानात्मधर्मरूपत्वाद् बोधरूपवंच्छब्दार्थग्रहणाद्वेति विकल्पात्। तत्र न तावत् सङ्केतग्रहणादिति पक्षः; पूर्व सङ्केतस्यागृहीतत्वात् । नापि द्वितीयः पक्षः । तथा हि-द्विविधः शब्दात्मा-स्वलक्षणरूप.:, सामान्यलक्षणरूपश्च । तत्र यस्तावत् स्वलक्षणरूपः, तस्यावाचकत्वात् तदाकारतया ज्ञानस्य सविकल्पकत्वम्। नाप्यसौ ज्ञानस्यात्मगतो धर्मः; नीलादिवद्वहीरूपेण भासनात्। अन्यथा हि नीलादीनामपि ज्ञानधर्मत्वं स्यात्; अविशेषात्। ततश्च विज्ञानमात्रमेव विश्वं स्यात्, न भूतपरिणामरूपम्।
- ननु साकारज्ञानपक्षे नीलादिप्रकारो ज्ञानस्यात्मगत एव धर्मो बहीरूपेण भासते, तत्किमुच्यते-बहीरूपेण भासनाज्ञानात्मधर्मो न भवतीति? सत्यमेतत्; किन्तु बाह्यार्थीपरागितया ज्ञानस्य तथा प्रतिभासनान्नात्मगतोऽसौ ज्ञानस्येति व्यवस्थाप्येत। किं तर्हि ? बाह्यस्यैवेति; तत्रैव तस्य निजत्वात्। ज्ञाने तु तस्यार्थोपधानकृतत्वेनागन्तुकत्वात्। तस्मान्न १-१. तच्चो०- पा०, गा०। २-२. वाचकत्वानुभवाकारतया-पा०, गा०।