________________
४५२
तत्त्वसंग्रहे . स्यादेतत्, ययोः सहस्थितिनियमस्तावुपादानोपादेयभूतौ, यथा-प्रदीपप्रभे। अस्ति च सहस्थितिनियमः शरीरमनोविज्ञानयोरिति स्वाभावहेतुः । तदयमन्यतरासिद्धो हेतुः; विरूपे धातौ शरीरमन्तरेणापि मनोमतेरवस्थानाभ्युपगमात् । नापीष्टसिद्धिः; मनोमतेरपि देहं प्रत्युपादानत्वप्रसङ्गात्। अनैकान्तिकता च; हेतुभेदादपि सहावस्थानसम्भवात् । यथा--अग्निताम्र-द्रवतयोः । तथा हि-वह्निसहकारि तानं द्रवतामारभते, न केवलम्; एवमिहापि देहस्योपादानं कललादि मनोविज्ञानसहकारि देहमुत्तरमारभते, इत्यतस्तयोः सह स्थानं नोपादानोपादेयभावादित्यतोऽनेकान्त एव।
: अथापि स्यात्-यद्यप्युत्तरकालं मनोधी: पूर्वपूर्वबुद्धिप्रभवा भवति, तथापि या प्रथमकालभाविनी तस्या देहोपादानत्वादतो नाऽनादित्वसिद्धिरिति? तदेतदसम्यक्; न ह्यस्याः कल्पानायाः किञ्चित् साधकं प्रमाणमस्तीति प्रतिपादितमेतत्। बाधकमपि नास्तीति चेत् ? न;विद्यत एव बाधकम्। तथा हि-यदि देहात् सकृदुत्पन्ना सती मनोधी: पश्चात् सजातिसमुद्भवा स्यात्, तदोत्तरकालं सर्वदैव पूर्वपूर्वमनोविज्ञानसमुद्भवैव स्यात्, न विजातीयचक्षुरादिविज्ञानसमुद्भवा, न हि धूमोऽग्नेः सकृदुद्भूय पश्चादन्यतो विजातीयादुद्भवति। न च मनोमतिरुत्तरकालं मनोविज्ञानसमुद्भवैवानुभूयते, किं तर्हि ? अनियतसमनन्तरप्रत्ययप्रसवा। न च यद्यतः प्रथमतरमुदयमासादयत् समुपलब्धं तत्ततोऽन्यतो भवितुमर्हति; अहेतुकत्वप्रसङ्गात् । [G.530] प्रथमतरं वा नियतचक्षुरादिविज्ञानसमनन्तरमुदयमासादयन्ती मनोधीरनुभूयत इति, अतोऽप्रतिनियतविज्ञानमात्रभाविनी-इति सिद्धम्।
किञ्च-यदि प्रथमकाल एव मनोमतेरुपादानकारणं देहः, नोत्तरकालम्, तदा देहनिरपेक्षा सा किं न प्रवर्तेत? न ह्यनुपकारिणि देहे तस्या काचिदपेक्षा युक्ता । यस्यापि तव बुद्ध्यन्तरपूर्विका बुद्धिः, तस्यापि केवला किं न प्रवर्तत इति चेत् ? न; प्रवर्त्तत एव। यथा-विरूपे धातौ । याऽनुरूपे स्पृहांवती सा तत्सापेक्षा वर्त्तत इत्यनुपालम्भ एव। ___ अथोत्तरकालं देहस्याप्युपकारित्वमङ्गीक्रियते? तदाऽनेकविज्ञानप्रबन्धप्रसवप्रसङ्गः; शरीरस्यापरविज्ञानोपादानभूतस्याविकलस्य तजनकत्वेनावस्थितत्वात् । यथा हियद्यदेवोत्पद्यते देहाद्विज्ञानं तत्तदपरं पृथक् पृथग्विज्ञाने सन्तनोतीत्येकस्य प्राणिनः प्रतिक्षणमप्रमेयविज्ञानसन्तानाः प्रसूयेरन्। न चैवमनुभवोऽस्ति। ..
अथापि स्यात्-उत्तरकालं देहस्य नोपादानकारणत्वेन पृथगुपकारित्वमिष्टम्, किं तर्हि ? प्रबन्धेन स्वोंपादानतः प्रवर्त्तमानाया मनोधिय उत्तरोत्तरकार्यप्रसवं प्रति सहकारित्वादुपकारी देह इत्यतो न देहनिरपेक्षा सा प्रवर्तत इति? एतदपि मिथ्या; न हि यो यस्य यथा जनकत्वे प्रसिद्धः, स तं जनयन्नन्यथा जनयति; विशेषाभावात् । तथा हि-आलोकादिरनुपहतचक्षुर्विज्ञानं प्रत्यालम्बनभावेन जनकत्वमनुभूय न पुनस्तस्यान्यथा जनको भवति । यदाह
"ग्राह्यताया न खल्वन्यजननं ग्राह्यलक्षणे ॥.
साक्षान्न ह्यन्यथा बुद्धे रूपादिरुपकारकः"। (प्रवा० २, ५२९-३०) इति ।
अन्यथा कार्यस्य कारणकृतस्वभावभेदाभेदस्य व्यवस्थानं न स्यात्; तद्गतोपका१. तद-पा०।
२. ०लक्षणम्- सर्वत्र।