________________
लोकायतपरीक्षा
४५१ पुनर्वस्त्वधिकृत्यैव यद्विकार्यते न तत्तदुपादानम्,यथा गवयमधिकृत्य गौर्विकार्यमाणः । अविकृत्य च शरीरं मनोमतेरनिष्टाचरणादिना दुर्मनस्कृतादिलक्षणस्य विकारस्योपादानं क्रियत इति व्यापकविरुद्धोपलब्धिः ।
ननु 'चाहारस्वापादिना देहस्य पुष्ट्यादिविकारे सति रागादिलक्षणा मनोमतेर्विकारापत्तिर्दृश्यत एव? यदि नाम दृश्यते ततः किम्! न ह्येतावता हेतोरसिद्धत्वम्। तथा हियदविकारेऽपि यस्य विकारापादनं सम्भवति न तत्तदुपादानमित्येतावन्मात्रमिह विवक्षितम्। सम्भवन्ति च 'कस्याञ्चिदवस्थायामनिष्टाचरणादिना देहविकारापादनमन्तरेणैव बुद्धेर्विकारापादनमिति कुतोऽसिद्धत्वं हेतोः ! न चाप्येवम्भूतात् कादाचित्कात् तदीयविकारानुविधानात्तदुपादनत्वं युक्तम्; अतिप्रसङ्गात्। एवं हि विषयस्याप्युपादानत्वं स्यात्। तथा हि-शार्दूलशोणितादिबीभत्सविषयदर्शनादिबलेनापि कस्यचित् कातरमनसः सञ्जायत एव मोहादिलक्षणो मनसो विकारः, न चैतावता सा मनोमतिस्तदाश्रिता भवति। कामशोकादिवितर्केण च मनस्युपहते देहविकारदर्शनाद्देहस्यापि तदुपादानताप्रसङ्गात् । किन्तु नियमेन साक्षाच्च यस्यैव यो विकारमनुविधत्ते स तदुपादानो युक्तः। न च रागादिलक्षणो विकारो नियमेन शरीरपरिपोषादितो भवति; कस्यचित् परिपुष्टशरीरस्यापि प्रतिसङ्ख्यानवतोऽसम्भवात्। तथा परिक्षीणवपुषोऽप्ययोनिशोमनस्कारबहुलस्य पुंसस्तिर्यग्गतस्य च कस्यचिदपचितपरिमाणस्याप्यतीव रागादिदर्शनात्। न च यदभावेऽपि यद्भवति तत्तस्य कार्यं युक्तम्; अतिप्रसङ्गात् ।
नापि साक्षादेहाद् रागादिः सम्भवति, अयोनिशोमनस्कारादिव्यवहितत्वात्। तथा हि-देहपुष्टौ सत्यामन्तश्चेष्टव्यवक्षप्यविषयोपजनितसुखाद्यनुभवः । तत आत्मस्नेहवतस्तस्मिन् सुखादौ तत्साधने च नित्यादिविपर्यासपरिगतमनसो ममेदमनुग्राहकमुपघातकं [G.529] चेत्यात्मोपकारकप्रतिकृत्यादिविकल्पः, ततस्तत्परितोषदौर्मनस्यादिसम्भवः। तस्माच्च सुखादिविषयाध्यवसानादिप्रसूतय इत्येतच्चान्वयव्यतिरेकाभ्यां प्रतीतमेव; सौमनस्यादिसम्भव एव रागादिदर्शनात्, सत्यपि पुष्ट्यादौ तदसम्भवे चादर्शनात्। अतो न पुष्ट्यादि साक्षान्मनोमतेर्विकारकम्।
___ अत एव च साक्षादनुपकारित्वात् सहकारिकारणमपि न देहस्तस्या इति सिद्धम्; साक्षादेवोपकारिणामङ्करादिषु क्षित्यादीनां सहकारित्वप्रसिद्धेः, अन्यथाऽतिप्रसङ्गः स्यात्। तस्मात् सजातीयपूर्वबीजप्रबोधप्रवृत्तय एव रागादयः । देहपुष्टियौवनकालादयस्तु केषाञ्चित् प्रतिसङ्ख्यानाभ्यासविकलानां तद्वासनाप्रबोधहेतवो भवन्ति।
- भवतु वा साक्षादुपकारी देहो मनोमते: स्वोपादानप्रवृत्तायाः कदाचित्, तथापि न देहनिवृत्तावपि तस्या निवृत्तिः सिध्यति, यथा वह्निनिवृत्तावपि न घटादिविनिवृत्तिः; स्वोपादानप्रवृत्तत्वादिति नानिष्टापत्तिः । नाप्यनैकान्तिकता हेतोः; अतिप्रसङ्गात् । नापि विरुद्धता; सपक्षे भावात्। अतो नोपादानकारणं देहः । नापि सहकारिकारणमिति सिद्धं मनोमते: पूर्वपूर्वबुद्धिप्रभवत्वमेव॥ १. चाहारश्चापादिना-पा०,चाहारश्चापाकादिना-गा०। २. कस्यचिदवस्थायाम-पा०,गा०।। ३. शरीरपोषादितो-पा०,गा०। ४-४. तत्रात्मदेहवत०-पा०,गा०। ५. ०ध्यवसायादि०-पा०,गा० ।