________________
४५०
तत्त्वसंग्रहे ङ्गवैकल्येऽपि मनसोऽनुत्पादापत्ते:, क्षित्यादीनामन्यतरापायेऽङ्करानुत्पत्तिवत्। न हि सामग्रीप्रतिबद्धं कार्यमन्यतराभावे भवति; तत्प्रतिबद्धस्वभावत्वहानिप्रसङ्गात्।
अथ यथासन्निधानं सर्वेऽपि चैतन्यस्य हेतवः? एवं तर्हि विकलाविकलाङ्गदेहजनितयोर्विशेषेण भवितव्यम्; कारणभेदात्, अन्यथा कार्यस्य भेदो निर्हेतुक: स्यात्। न वाऽविकलाङ्गस्य सतः पश्चाद् विकलाङ्गतायामुपजातायां कश्चिन्मनोमतेर्विशेषोऽस्ति; श्रुतादिसंस्कारस्य तदानीमप्यविकलस्यैवानुवृत्तेः । गजादिदेहवर्त्तिनी च मनोमतिरतिशयवती प्राप्नोति, न मनुष्यधीः। ये बाल्यशरीरमनुजन्मानस्ते मन्दधियः, महाशरीरास्तु पटुधियः; कारणस्य निर्वासातिशयाभ्यां कार्यस्य निर्वासातिशययोगदर्शनात्। न हि यद्भेदाद् यस्य भेदो न भवति, तत्तस्य कार्यं युक्तम्; अतिप्रसङ्गात्, कार्यभेदस्य च निर्हेतुकत्वप्रंसगाच्च।।
नापि सेन्द्रिय इति पक्षः । तथा हि-इन्द्रियात् प्रत्येकं वा मनोमति: स्यात् ? समस्ताद्वा? न तावत् प्रत्येकम्; एकैकेन्द्रियापायेऽपि मनोमतेरविकलत्वात्। तथा हि-प्रसुप्तिकादिरोगादिना कार्येन्द्रियादीनामुपघातेऽपि मनोधीरविकृतैवाविकलां स्वसत्तामनुभवति। न च यस्य विकारेऽपि यन्न विक्रियते तत् तत्कार्यं युक्तम्; अतिप्रसङ्गात् । किञ्च+चक्षुरादिविज्ञानवत् प्रतिनियतार्थग्राहिता निर्विकल्पकत्वमर्थसन्निधानसापेक्षप्रवृत्तिकता च. प्राप्नोति, अभिन्नकारणत्वात्; युगपदनेकविकल्पोत्पत्तिप्रसङ्गाच्च । नापि समस्तादिति पक्षः; एकेन्द्रियाभावेऽप्यभावप्रसङ्गात्, एकसहकार्यपायेऽङ्कराद्यपायवत्।
नाप्यनिन्द्रिय इति पक्षः, कलेवरच्युतस्यापि पाण्यादेस्तद्धेतृत्वप्रसङ्गात् । विशिष्टस्य हेतुत्वे सेन्द्रिय एवेष्टः स्यात् । न हि सेन्द्रियादन्यो विशिष्टः शक्यते दर्शयितुम्।
नाप्युपादनकारणमिति पक्षः । तथा हि-य: कार्यगताशेषविशेषानुयायिनः स्वभावस्य हेतुः२, सदा चात्मसत्ताप्रत्युपस्थानतस्तदुपकारी, यस्य विकारापादनमन्तरेण कार्यमशक्यविकारम्, स एव कारणविशेष उपादानत्वेन प्रसिद्धः। यथा पूर्वपूर्वो मृदात्मा कलाप उत्तरोत्तरस्य घटसंज्ञितस्य कार्यकलापस्योपादानम्। अत एव यो यद्विकारयितुमिच्छति स तदुपादानविकारेणैव तद्विकारयति, नान्यथा। न ह्यपादाने पूर्वस्मिन्नप्रतिबद्धसामर्थ्य सति "तत्कार्यस्योत्तरस्योत्पित्सोर्न: [G.528] केनचित् प्रतिघात: शक्येत कर्तुम्। यथा घटादेरुत्तरस्योत्पत्स्यमानस्य कार्यस्य पूर्वकं मृदात्मानमप्रतिबद्ध्यासमर्थक्षणोत्पादनत:५ शक्यते न विकारापादानं कर्तुम् । सर्वत्रैव च विकारापादनेऽयमेव क्रमो यदुतासमर्थोत्तरापादानक्षणोत्पादनम्; अन्यथा न किञ्चित् साक्षाद् विरुद्धं सम्भवति। यदि हि सम्भवेत्, कार्यस्यापि कारणविकारापादानवत् साक्षाद् विकारापादनं स्यात्, नोपादानविकारापादनद्वारेणैव।
यत् पुनः प्रदीपमधिकृत्यैव देशान्तरवर्त्तिन्यास्तत्प्रभाया अन्तरावरणेन विकारापादनं क्रियते, तन्न तस्याः साक्षात् प्रदीप उपादानकारणम्, किं तर्हि ? पूर्वपूर्वः प्रभाक्षणः; “तस्यैवासमर्थक्षणान्तरोत्पादनलक्षणविकारापादानात् । आवरणेन प्रभा प्रतिहन्यते। यत् १. मानसानुत्पादा०-पा०, गा०। २. ०रविकृतैकाऽवि०-पा०, गा। ३. पा०, गा० पुस्तकयो स्ति। ४. कार्यस्यो०-पा०, गा०। ५. मप्रतिबद्ध्य०-वा०। ६. विकारोत्पादनेल-पा०, गा० । ७. समर्थान्तरो०-पा०,गा०। ८. तथैवा०-पा०,गा०।